________________
जेनतईभाषा । चारित्वस्याहार्यारोपेण धूमो यदि वहिव्यभिचारी स्यादित्येवंरूपेण व्यापकस्य वहिव्यभिचारित्वव्यापकस्य वह्निजन्यत्वाभावस्य आहार्यप्रसञ्जनं वह्निजन्यत्वाभावस्य आहार्यप्रसञ्जनं वह्निजन्यो न स्यादित्येवंरूपं तत्तर्क इत्यर्थः ।
पृ. १६. पं. १२ स च-उक्तलक्षणतर्कश्च ।
पृ. १६. पं. १२ विशेषदर्शनवदिति-अयं स्थाणुर्न वेतिविरोधिस्थाणुत्वस्थाणुत्वाभावकोटिसंशयकाले स्थाणुत्वप्रकारकनिश्चयात्मकप्रत्यक्षप्रमाकरणेन्द्रियप्रमाणस्य सहकारी स्थाणुत्वव्याप्यशाखादिमचनिश्चयलक्षणं विशेषदर्शने न तु खातन्त्र्येण प्रमाणं, तथा तर्कोऽप्ययं व्याप्तिविरोधिव्यभिचारशङ्काकालीनस्य व्याप्तिग्राहकान्वयव्यतिरेकसहचारग्रहलक्षणप्रत्यक्षप्रमाणस्य सहकारी ननु स्वातन्येण प्रमाणमित्यर्थः । एकधर्मावच्छिन्नकार्यतानिरूपितकारणतावत्वलक्षणस्य खासमबधानप्रयुक्तफलोपधायकत्वाभाववत्कारणान्तरकत्वलक्षणस्य नासहकारित्वस्य कल्पनापेक्षया विरोधिशङ्कानिवर्तकत्वकल्पने लाघवमभिसन्धायोक्तं विरोधिशङ्कानिवर्तक त्वनेति व्याप्तिज्ञानविरोधिव्यभिचारशङ्कानिवर्तकत्वेनेत्यर्थः ।
पृ. १६. पं. १३ तदनुकूल एव-व्याप्तिज्ञानानुकूल एव । पृ. १६. पं. १३ चायम्-अनन्तरोपदर्शितस्तकः । पृ. १६. पं १३ स्वतः-साक्षात् ।
पृ. १६. पं. १४ तन्न-उक्तनैयायिकाभिमतं न समीचीनम् । पराभिमतश्चतर्को नामाभिर्व्याप्तिग्राहकप्रमाणतयेष्यते किन्तु सकलदेशकालाद्यवच्छेदेन साध्यसाधनभावादिविषयक ऊह एव तथेष्यते तस्य च व्याप्तिग्रहरूपस्य स्वपरव्यवसापित्वलक्षणप्रामाण्याक्रान्तत्वेन स्वतः प्रामाण्यं स्यादेवेत्याह।
पृ. १६. पं. १४ व्याप्तिग्रहरूपस्येति-तकि व्याप्यारोपेण व्यापकारोपरूपस्य तर्कस्य नैयायिकाभिमतस्य निपरुयोगित्वमेव, नेत्याह ।
पृ. १६. पं. १५ पराभिमतेति-नैयायिकाभिमतेत्यर्थः ।
पृ. १६. पं. १६ कचिदिति-यत्र तणासदभिमतेन व्याप्तिमहप्रसङ्गस्ववेत्यर्थः।