________________
1. प्रमाणपरिच्छेदः । खलक्षणस्य प्राप्तौ तदैक्याध्यवसितस्य विकल्पस्य सामान्यस्यापि प्राप्तेः । प्रसिद्धेःसम्भवात् , अनुमानेऽपि अनुमेयसामान्यैक्याध्यवसितस्खलक्षणप्रतिबद्धलिङ्गस्वलक्षणजन्यत्वलक्षणपरम्परया स्खलक्षणप्रतिबन्धेनैव भवतां व्यवहारतः प्रामाण्यप्रसिद्धिस्सा प्रकृतेऽपि तुल्यैवेति यद्यनुमानस्य प्रामाण्ये भवतामनुमितिस्तदातर्कस्य प्रामाण्ये द्वेषो निर्निबन्धन एवेति भावः। बौद्धानां प्रत्यक्षानुपलम्भपञ्चकाद्वयाप्तिग्रहाभ्युपगमस्य मिथ्यात्वं तदभ्युपगमोपदर्शनपुरस्सरमुपदर्शयति ।
पृ. १६. पं. १ यस्तु-अग्निधूमव्यतिरिक्त...तदनन्तरम्-धूमानुपपलम्भानन्तरम् ।
पृ. १६. पं. २ ततः-अग्नेरुपलम्भानन्तरं, धुमस्येत्यनन्तरमुपलम्भ इति सम्बध्यते । ___ पृ. १६. पं. २ इत्युपलम्भद्वयम्-अग्न्युपलम्भधूमोपलम्भस्वरूपोपल. म्भद्वयम् ।
पृ. १६. पं. २ पश्चात्-उक्तोपलम्भद्वयोत्तरकाले । पृ. १६. पं. ४ एतेषाम्-बौद्धानाम् , तत्र तेषां सम्मतिमुपदर्शयति ।
पृ. १६. पं ५ तदुक्तम्-धूमाधीरित्यादि-धूमस्यानुपलम्भः । अधीस्तयोः वह्निधूमयोः क्रमेणानुपलम्भौ । अन्वयः-व्याप्तिग्रहणम् ।
पृ. १६. पं. ८ स तु मिथ्या-ऊक्तबौद्धसिद्धान्तो मिथ्या । तत्र हेतुमाह ।
पृ. १६. पं. ८ उपलम्भेति-नैयायिकास्त्वन्यादृशमेव तर्कमुपेत्य तस्य प्रमाणसहकारित्वेन प्रमाणानुकूलत्वेन च प्रमाणानुग्राहकत्वमेव न तु स्वतः प्रामाण्यमित्युपगच्छन्ति, तन्मतमुपदर्य प्रतिक्षिपति ।
पृ. १६. पं. ११ यत्तु व्याप्यस्येति-आहार्यारोपो बाधनिश्चयकालीनमिच्छाजन्यं तदभाववति तज्ज्ञानं; स्वविरोधिधर्मितावच्छेदकस्वप्रकारकं ज्ञानं वा, तच्च नियमतो मानसप्रत्यक्षमेव, परोक्षज्ञानस्याहार्यत्वानभ्युपगमात् , तथा च धूमस्य वह्निजन्यत्वलक्षणबाधनिश्चयकाले वह्विजन्यत्वाभावव्याप्यस्य वहिव्यभि