________________
जैनतर्कभाषा ।
प्रत्यक्षमात्रगृहीतग्राही, सर्वोपसंहारेण व्याप्तेः प्रत्यक्षागृहीता या एवानेन ग्रहणादिति समाधत्ते ।
पृ. १५. पं २७ तन्नेति... तादृशस्य - सर्वोपसंहारेण व्याप्तिग्राहकस्य । पृ. १५. पं. २७ तस्य - तर्कस्य ।
१३६
पृ. १५. पं. २७ सामान्यविषयस्याप्यनुमानवत् - वस्तुभूतं सामान्यं न बौद्धाभ्युपगम इत्यतोऽवस्तुभूतसामान्यविषयकस्यापीत्यर्थः, भवन्मते सामान्यं यद्यपि न वस्तुभूतं तथापि तद्विषयस्यानुमानस्य प्रामाण्यं भवतोऽप्यनुमतं तथैवास्यापि प्रामाण्यं स्यादेवेत्यावेदयितुं अनुमानवदिति दृष्टान्तोद्भावनम्, यथा चावस्तुभूतसामान्य विषयकस्यानुमानस्य न साक्षाद्वस्तु भूत स्वलक्षणात्मकग्राह्यजन्यत्वं प्रत्यक्षवत, तथापि अतद्वयावृत्तिलक्षण सामान्यरूपेण ज्ञायमानो यस्स्वलक्षणात्माविशेषस्तेन प्रतिबद्धं यत्स्वलक्षणात्मकं लिङ्गं तेन जन्यत्वात्परम्परया स्वलक्षणजन्यत्वं सम्भवत्येव, यथा च व्यवहारतोऽनुमानस्य प्रामाण्यं तथैव तर्कस्यापि व्यवहारतः प्रामाण्यं नाम अनुमाय प्रवृत्तौ स्वलक्षणं प्राप्यत इति प्रवृत्तिविषयस्वलक्षणानुमानविषयसामान्ययोरैक्याध्यवसायादनुमानविषयस्यापि प्राप्ति - रिति अर्थप्रापकत्वमेव, तच्च तर्केऽपि, तद्विषयस्यापि प्राप्यस्वलक्षणेन सहैक्याध्यवसायसम्भवादित्याशयेनाह ।
पृ. १५. पं. २७ अवस्तुनि भासेऽपि - तर्के सामान्यस्य भवन्मतेनावस्तुनस्सामान्यस्य प्रतिभासनेऽपि ।
पृ. १५. पं. २८ परम्परया-साध्यसाधन दर्शन विषयस्वलक्षणपरम्पराजन्यत्वतः ।
पृ. १५ पं. २८ पदार्थ प्रतिबन्धेन --- दर्शन विषयस्वलक्षणात्मकपदार्थसम्बन्धेन ।
पृ. १५. पं. २८ भवताम् - बौद्धानाम् ।
पृ. १५. पं. २८ व्यवहारतः प्रामाण्यप्रसिद्धेः - व्यवहारतः प्रामाण्यस्य अर्थप्रापकत्वलक्षणसांव्यवहारिक प्रामाण्यस्य
प्राप्यविकल्पयोरैक्याध्यवसायतः