________________
१, प्रमाणपरिच्छेदः । गान्नयेत्यादिस्ताभ्याम् अन्वयव्यतिरेकाभ्यामिति यावत् , पूर्व गामानयेत्यादिवाक्यस्य गवानयनमिष्टसाधनमितिसामान्यतोऽवधारणं न तु गोपदस्य गौरर्थः द्वितीयाविभक्तेः कर्मत्वमर्थः, आङित्युपसर्गसहितनीधातोरानयनमर्थः, आख्यातस्य चेष्टसाधनत्वमर्थ इति विशेषतोऽवधारणं, तादृशावधारणश्चावापोद्वापाभ्यामेवजायत इत्याशयः,
पृ. १५. पं. २० सकलव्यक्तयुपसंहारेण च-सकलगवादिरूपार्थसक. लगोशद्वादिस्वस्वशद्रव्यक्त्युपसंहारेण गोशद्रमानं गोर्वाचकं गोमात्रं च गोशद्धयाच्यमित्येवंरूपेति यावत , वाच्यवाचकभावप्रतीतिरत्र तर्कात्मिका ज्ञेया, नैयायिकेन क्वचिद्वह्निं विनाऽपि धूमो भविष्यति वह्निविरहिण्यपि धूमः स्यादित्यादिव्यभिचारशङ्कानिवर्त्तनाय धूमो यदि वहिव्यभिचारी स्याद्वह्निजन्यो न स्यादित्यादिरनिष्टप्रसञ्जनरूपस्तर्कोऽङ्गीक्रियते, तल्लक्षणं तु व्यापकाभाववत्तया निर्णीते धर्मिणि व्याप्यारोपेण व्यापकारोप इति, तत्रापाद्यस्य वह्निजन्यत्वाभावस्यापादकेन वह्निव्यभिचारित्वेन व्याप्तिरपेक्षिता, तादृशव्याप्तिज्ञानस्यापि विरोधिनी आपाद्यविरहिण्यप्यापादकसत्त्वशङ्कालक्षणव्यभिचारशङ्का भवन्ती तर्केणैवापरेणोन्मूलनीया, सोऽपि तर्को नान्तरेणापाद्यापादकव्याप्तिग्रहं, तत्रापि विरोधिनी शङ्का आपतन्ती न तर्कमन्तरेण निवत्येत्येवमनवस्था यथा परमते, स्याद्वादे तु व्याप्तिप्रतिपत्तये स्वीकृतोऽयं तर्को नानवस्थया परिभूयते, सम्बन्धप्रतीत्यन्तरमन्तरेण स्वयोग्यतासामर्थ्यादेव साध्यसाधनाविनाभावलक्षणसम्बन्धप्रतीतिमाधातुं समर्थत्वादित्याह ।
पृ. १५. पं. २१ अयश्चेति-अनन्तरोपवर्णितस्वरूपश्चेत्यर्थः। निर्विकल्पकस्य प्रत्यक्षस्य प्रामाण्यं न तु तदन्तरभाविनो विकल्पस्येत्यभ्युपगच्छन्तो बौद्धा विकल्परूपत्वात्तकस्य प्रामाण्यन्नोररीकृतवन्त इति तन्मतं प्रतिक्षेप्तुमाशङ्कते ।
पृ. १५. पं. २४ प्रत्यक्षपृष्ठभावीति-प्रत्यक्षोत्तरकालभावीत्यर्थः ।
पृ. १५. पं. २४ अयम्-तर्कः, प्रत्यक्षानन्तरभाविनो विकल्पस्य यन्न प्रामाण्यं तत्र गृहीतमात्राध्यवसायित्वमेव प्रयोजकं न तु विकल्परूपत्वं, विकल्परूपत्वेऽप्यनुमानस्य प्रमाणतया बौद्धैरुपगमात्, अयश्च विकल्परूपोऽपि तर्को न