________________
१. प्रमाणपरिच्छेदः।
१३९ पृ. १६. पं. १६ एतद्विचाराङ्गतया-तर्केण यद्वयाप्तिसमर्थनात्माविचारस्तदनुकूलतया, कथन्तत्रानुकूल्यमस्येत्यपेक्षायामाह।
पृ. १६ पं. १६ विपर्ययपर्यवसायिन इति-अनिष्टापादनरूपस्य तर्कस्य मलशैथिल्यादिविरहेण तर्काभासताविरहेण विपर्ययपर्यवसानमावश्यकं, धूमो यदि वह्निव्यभिचारी स्याद्वह्निजन्यो न स्यादित्यस्य विपर्ययस्तु अस्ति वह्निजन्यो धूमस्तस्मान्न वतिव्यभिचारी, अनेन विपर्ययेण वह्निव्यभिचारित्वाभावे निश्चिते वह्निव्यभिचारित्वशङ्का व्यवच्छिद्यते ततश्चानुकूलमेव व्याप्तिग्राहकस्तकस्स्वकार्यसाधनाय प्रभवतीति आहार्यशङ्का विघटकत्वेन तर्कविचाराङ्गतयोपयोग इति नास्यापि निरुपयोगित्वमित्यर्थः यत्र तु व्याप्तिविचारो नाधिकृतः तत्राहायशङ्काऽपि नास्त्येव, अथापि विषयपरिशोधनाय स्वातन्त्र्येण तके आद्रियते । यदि वह्निन स्याद्भूमोऽपि न स्यादित्यादिस्तत्र वह्नि विनाऽपि धूमस्य या शङ्का तादृशशङ्कादिविघटतया स्वातन्त्र्येणेव पराभिमतस्य तस्योपयोगः, अत एवात्माश्रयान्योन्याश्रयचक्रकानवस्थालाघवगौरवादयो विषयपरिशोधका बहवस्तस्य भेदाः । तेष्वपि स्वं यदि स्वापेक्षं स्यात्स्वभिन्नं स्यादित्यादिरूपेणानिष्टापादानावतारसम्भवादित्याशयेनाह । ... पृ. १६. पं. १७ स्वातन्त्रेण-शङ्कामात्रेति इदमत्रावच्छेदकमिदं कमात्र, इदश्च कारणमिदं करमान्नेत्यादिशङ्कामात्रेत्यर्थः, ननु यदि शङ्कामात्रविघटतया नैयायिकाभिमतस्यापि तर्कस्योपयोगित्वमुपदर्य नैयायिकम्प्रत्यनुग्रहः स्याद्वादिना भवता क्रियते तदाऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं समर्थयमानो धर्मभूषणोऽपि भवताऽनुग्राह्य एव, अन्यथाऽपक्षपाति स्वात्मगतं न स्यादित्यत आह ।
पृ. १६. पं. १७ इत्थश्चेति-उक्तदिशा परकीयतर्कस्योपयोगित्वसमर्थने चेत्यर्थः, सत्येव मिथ्याज्ञानरूपे व्यवच्छेद्य तत्र ज्ञानरूपे तर्के अज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सङ्गच्छते इत्यन्वयः । अन्यज्ञानानामपि प्रामाण्यं समारोपलक्षणमिथ्याज्ञानव्यवच्छेदकत्वादेव तत्तस्यापि समस्तीति स्याचरस्यापि प्रामाण्यम् , यदि च मिथ्याज्ञानं व्यवच्छेद्यमस्य नाङ्गीक्रियते तदा न भवेदेव प्रामाण्यमिति, यद्वा ज्ञानस्य फलमज्ञाननिवृत्तिः यतश्चार्थे ज्ञातना