________________
जैनतर्कभाषा ।
त्वात्प्रत्यक्षेण ग्रहणासम्भवेऽपि सहचारनियमलक्षणव्याप्तेः खव्यापकसाध्यसामानाधिकरण्यरूपायाः प्रत्यक्षयोग्यत्वात्प्रत्यक्षेण ग्रहणं भविष्यतीति व्यर्थमेव तर्कप्रमाणकल्पनमिति नैयायिकः शङ्कते ।
पृ. १५. पं. ९ अथ स्वव्यापकेति-खं हेतुः पर्वतो वह्निमान् धूमादित्यादौ धूमः तद्वयापकं साध्यं वह्विस्तत्सामानाधिकरण्यं धूमेऽस्तीति लक्षणसमन्वयः अयोगोलकं धूमवद्वह्वरित्यादौ व्यभिचारिणि वह्निहेतौ नेदं लक्षणं समस्ति यतो व्यापकत्वं तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मत्वं, तत्र प्रकृते तत्पदेन वह्निर्धर्तव्यः तत्समानाधिकरणस्तदधिकरणवृत्तिरत्यन्ताभावो धूमात्यन्ताभावः तस्य वह्वयधिकरणेऽयोगोलके वृत्तित्वात् , तत्प्रतियोगितावच्छेदकमेव धूमत्वमिति न वहिव्यापको धूमलक्षणसाध्यमिति । ननु कालान्तरीणदेशान्तरीणवह्निधूमादिव्यक्तीनां प्रत्यक्षासम्भवात्सकलसाध्यसाधनव्यक्त्युपसंहारेण कथं प्रत्यक्षेण व्याप्तिग्रहणमित्यत आह ।
पृ. १५. पं. ११ सकलसाध्येति सामान्यलक्षणप्रत्यासत्त्या-इन्द्रियसम्बन्धविशेष्यकज्ञानप्रकारीभृतसामान्यरूपालौकिकसन्निकर्षेण यदा कश्चिद्धमश्चक्षुस्सन्निकृष्टस्तद्विषयकं धूम इतिज्ञानमुत्पद्यते तदा सकलधूमेन सह चक्षुष उक्तसनिकर्षों वर्तते । तथाहि-इन्द्रियसम्बच्चश्चक्षुस्संयुक्तः पुरोवत्तिधूमस्तद्विशेषकं धूम इतिज्ञानं तत्प्रकारीभूतं धूमत्वं सामान्यं सकलधूमे वर्तत इति तादृशसन्निकर्षवलाचक्षुषा सकलधूमालौकिकप्रत्यक्षम् , एवमुक्तदिशा सकलवह्वेरपि प्रत्यक्षमतस्सकलोपसंहारेण व्याप्तिग्रहणं प्रत्यक्षेण सम्भवतीत्यर्थः। ऊहाख्यतर्कमन्तरेण ज्ञातेनापि धूमत्वादिसामान्येन सकलधूमादिव्यक्तिज्ञानासम्भवात्तकादेव, व्याप्तिग्रहणसम्भवे सामान्यलक्षणाप्रत्यासत्यम्युपगमे प्रमाणाभावान्नोक्तदिशा प्रत्यक्षेण व्याप्तिग्रहसम्भव इति समाधत्ते ।
पृ. १५. पं. १२ नेति-तर्क एव नास्ति, कुतस्तेन व्याप्तिग्रहोपपत्तिरित्याशङ्कापनोदायाह ।
पृ. १५. पं १२ तर्कयामीति-यथा साक्षात्करोमीत्यनुभवबलात्प्रत्यक्षमुपेयते, यथावाऽनुमिनोमीत्याद्यनुभवबलादनुमित्यादिरुपेयते, तथैव तर्कयामीत्यनुभवबलात्तद्विषयस्तोऽभ्यु पेय इत्याशयः । सामान्यलक्षणायन्थे गङ्गेशोपा