________________
१. प्रमाणपरिच्छेदः । लक्ष्यत्वे तु हेतुन्यापकंसाध्यसामानाधिकरण्यमेव व्याप्तिः, तद्ग्रहस्यापि प साध्याभाववद्वत्तित्वलक्षणव्यभिचारग्रहविरोधित्वमुपेयते । तत्राव्यभिचारलक्षणव्याप्तावित्यर्थः।
पृ. १५. पं. ४ भूयोदर्शनेति -इदश्च मीमांसकमतमवलम्ब्य यत्र यत्र धूमस्य दर्शनं तत्र तत्र वढेरपि दर्शनं तत्सहितौ यावन्वयव्यतिरेको साध्यहेतसामानाधिकरण्य-साध्याभावहेत्वभावसामानाधिकरण्ये तत्सहकारेणापीत्यर्थः ।
पृ. १५. पं. ५ प्रत्यक्षस्य-सनिकृष्टवर्तमानमात्रविषयकस्य प्रत्यक्षस्य, तावदितिवाक्यालंकारे।
पृ. १५. पं. ५ अविषयत्वादेव-साध्यसाधनमात्रगतायामव्यभिचारलक्षणायां व्याप्तावित्यस्याभिसम्बन्धेन विषयत्वाभावादेव यो यस्य ज्ञानस्य विषयस्तत्रैव तज्ज्ञानस्य प्रवृत्तिः व्याप्तिस्त्वव्यभिचारलक्षणा न तस्य विषयस्तेन तत्र तस्य प्रवृत्तिः। यदा चाव्यभिचाररूपायामपि तस्यां न प्रवृत्तिस्तदातीतानागतवर्तमानसाध्यसाधनघटिता न प्रत्यक्षस्य वर्तमानमात्रविषयकस्य विषय इति न तत्र तस्य प्रवृत्तिरित्याह।
पृ. १५. पं. ६ सुतराश्चेति-केवलाव्यभिचारग्रहणेऽपि न यस्य सामर्थ्य तस्य न सम्भवत्येव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहणे इति भावः । प्रत्यक्षाग्राह्यत्वादेव तन्मूलकानुमानादिग्राह्यत्वमपि न व्याप्तेः किन्तु जैनामिमतो. हाख्यतर्कप्रमाणग्राह्यत्वमित्यतस्तर्कप्रमाणमभ्युपेयमित्याह ।
पृ. १५. पं. ६ माध्येति-पूर्व साध्यसाधनयोरेकत्र दर्शनं ततो हेतुदर्शने सति पूर्वदृष्टसाध्यसाधनसहचारस्य स्मरणं ततो वर्तमानदर्शनविषये धूमादिलिङ्गे पूर्वदृष्टवह्वयादिसहचरितधूमस्य सजातीयत्वप्रतिसन्धानलक्षणप्रत्यभिज्ञानं ततस्तत्सहचरितात्ताख्यज्ञानावरणकर्मक्षयोपशमविशेषाद्यत्र यत्र धूमस्तत्राग्निरित्याकारकस्सकलसाध्यसाधनव्यक्त्युपसंहारेण तर्को व्याप्तिप्रतिपत्तौ समर्थ इत्यर्थः ।।
पृ. १५. पं. ७ तत्प्रतीति-व्याप्तिप्रतीति । पृ. १५. पं. ८ आधातुं-जनयितुम् । पृ. १५. पं. ८ अलम्-समर्थः, अव्यभिचारलक्षणव्याः प्रत्यवायोग्य