________________
मतर्कभाषा । तकं निरूपयति ।
पृ. १४. पं. २७ सकलेति-अत्र तर्क इतिलक्ष्यनिर्देशः, सकलेत्यादि ऊह इत्यन्तं लक्षणवचनम् ,भृता भविष्यन्तो वर्तमानाश्च ये धूमादिवह्नयाद्यधिकरणीभूता ये च तथाविधाः काला आदिपदाये च धूमवह्नयादीनामवान्तरविशेषादयस्तदव. च्छेदेन सर्वोपसंहारेणेति यावत् साध्यसाधनभावादीत्यादिपदाद्वाच्यवाचकभावादेरुपग्रहः तद्विषयको बोध ऊहापरपर्यायः तर्क इत्यर्थः । ऊह इति तर्कस्य नामान्तरं तावन्मात्रेण न विषयविशेषघटितमूर्तिकबोधरूपस्य तर्कस्य प्रदर्शनम् , वह्नौ सत्यमेव भवतीत्यन्वयव्याप्तिग्रहाकार प्रदर्शनम् , वह्नि विना न भवतीति व्यतिरेकव्याप्तिग्रहाकारोपदर्शनम् , यावान् कश्चिद्रूमः स सर्व इन्युभयत्रान्वितम् । ध्याप्तिग्रहलक्षणं तर्कमुदाहृत्य वाच्यवाचकभावसम्बन्धग्रहणलक्षणं तर्कमुदाहरति ।
पृ. १५. पं. २ घटशद्वमात्रमिति-व्याप्तिग्रहणमूहाख्यतर्कप्रमाणेनैव न तु प्रत्यक्षप्रमाणेन सहचारदर्शनादिसहकृतेन व्याप्तिग्रहणं वदन्नैयायिको न यथार्थवादीत्याह ।
पृ. १५. पं. ३ तथाहीति-स्वरूपप्रयुक्तेति कार्यकारणभावतादात्मान्यतरलक्षणप्रतिबन्धप्रयुक्तेति स्वाभाविकीति यावत् । व्याप्तिद्विधाऽनौपाधिकी सोपाधिकी च यथा धूमे वहिव्याप्तिरनौपाधिकी, सोपाधिकी तु वह्नौ धूमव्याप्तिः, उपाधिस्तत्रार्दैन्धनसंयोगः, साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधेर्लक्षणं । आर्दैन्धनसंयोगो हि धूमव्यापकत्वे सति वह्नयव्यापक इति भवत्युपाधिस्तद्गता च धूमव्याप्तिस्तत्सम्बन्धाद्वह्नौ प्रतिभाति, न साऽनुमितिनिबन्धनं । यदुक्तम्:-" अन्ये परप्रयुक्तानां व्याप्तिनामुपजीवकाः ।
तैदृष्टैरपि नैवेष्टा व्यापकांशावधारणा" ॥१॥ इति स्वरूपप्रयुक्ता कीदृशा व्याप्तिरित्यपेक्षायामाह अव्यभिचारलक्षणेति । अव्यभिचारलक्षणा च पञ्चविधा व्याप्तिः-(१) साध्याभाववदवृत्तित्व-(२) साध्यबद्भिअसाध्याभाववदवृत्तित्व-(३) साध्यवत्प्रतियोगिकान्योन्याभावासामानधिकरण्य-(४) सकलसाध्याभाववन्निष्टाभावप्रतियोगित्व-(५) साध्यवदन्यावृत्तित्वमेदाद , । इयं च व्याप्तिः केवलान्वयिसाध्यकानुमानस्यालक्ष्यत्वमभ्युपेत्य, तस्य