________________
१. प्रमाणपरिच्छेदः। पृ. १४. पं. १५ प्रत्यभिज्ञानेति-अतिदेशवाक्यं गोसदृशो गवय इति तत्र गवयपदं गवयपदवाच्यपरं, तत् गोसादृश्यमनूद्य तत्समानाधिकरण्येन गवय. पदवाच्यत्वं विदधातीति तदनूद्यो धर्मो गोसादृश्यं तस्य गवयत्वावच्छेदेन दर्शनमिति प्रत्यभिज्ञानावरणकर्मक्षयोपशमविशेषेण गवयत्वावच्छेदेनैव गवयपदवाच्यत्वस्य परिच्छेदोपपत्तेनिणयात्मकज्ञानसम्भवादित्यर्थः ।
पृ. १४. पं. १८ अत एव-निरुक्तकार्यकारणभावबलादेव, अस्योपपद्यते इत्यनेन सम्बन्धः। - पृ. १४. पं. १८ पयोम्बुभेदी-क्षीरनीरविवेककर्ता, अर्थात् क्षीरनीरयोरन्योन्यमिश्रितयोर्मध्यानीरं विहाय क्षीरस्य पानकर्ता, हंसः स्यात् हंसपदवाच्यो भवेत् , अन्यत्स्पष्टम् , एवमनभ्युपगमे नैयायिकस्य स्वाभ्युपगतप्रत्यक्षानुमानो. पमानागमाख्यप्रमाणचतुष्टयव्यतिरिक्तान्यपि सूक्ष्मत्वादिग्राहकज्ञानादिलक्षणप्रमाणान्यापतेरन्नित्याह ।
पृ. १४. पं. २० यदि चेति-अतः-बिल्वात् , तत्-आमलकम् , इत्यादीत्यादिपदाद्विल्वादाम्रफलं महदित्यादिज्ञानानामुपग्रहः। ननु अतस्तत्सूक्ष्ममित्यादिज्ञानानामलौकिकमानसप्रत्यक्षत्वमेव नैयायिकैरभ्युपगम्यत इति प्रत्यक्षप्रमाण एवोक्तप्रतीतीनामन्तर्भावान प्रमाणान्तरप्रसङ्ग इत्यत आह ।
पृ. १४. पं. २४ मानसत्वे चासामिति-सूक्ष्मत्वादिपतीतीनाम् , ननुउपमानस्य मानसत्वपसङ्गस्य ममानिष्टस्यापत्तौ भवतोऽपि तदनिष्टमेवा पतितमित्यत आह
पृ. १४. पं. २४ प्रत्यभिजानामीति-भवेदेतदेवं यद्युक्तप्रतीतीनामनन्तरमनुव्यवसायत्वेन भवताऽधीतःप्रत्ययोऽसाकन्तु स्वसंवेदनरूपतयोक्तप्रतीतिस्वरूप एव प्रत्ययस्साक्षात्करोमीत्येवंरूपः स्यात्, न चैवं, किन्तु प्रत्यभिजानामीत्येवंरूपैवासां प्रतीतिरनुभूयत इति तया प्रत्यभिज्ञानत्वेमेवासामभ्युपेयमितिभावः । इति प्रत्यभिज्ञाननिरूपणम् ।
॥ अथ तर्कपमाणनिरूपणम् ।।