________________
१२०
जैनतर्कभाषा। इति वा ज्ञानस्य गवयनाम्नो गवयरूपार्थेन सह शक्तिरूपसम्बन्धविषयकस्य गोसदृशोऽयमितिज्ञानेन गोसदृशो गवय इत्यतिदेशवाक्यार्थस्मृतिव्यापारकेण जनितस्योपमितत्वमभ्युपगम्यते तदपि न समीचीनं तादृशज्ञानस्यापि सङ्कलनात्मकत्वेन प्रत्यभिज्ञानत्वस्यैव व्यवस्थितेरित्याह ।
पृ. १४. पं. ११ एतेनेति-अस्य अपहस्तितम्भवतीत्यनेनान्वयः, वनं गतस्य पुंसो यत्प्रथमतो गवयपिण्डदर्शने सति गोसदृशोऽयमितिज्ञानमुत्पद्यते तस्योपमितिकरणत्वमवतरणिकायां कतिपयनैयायिकाभिप्रायमाश्रित्यास्माभिरपदर्शितम् , गोसदृशो गवय इत्यतिदेशवाक्यार्थज्ञानकरणकमिति तु नैयायिकैकदेशिमतमवलम्ब्य ग्रन्थकृतोक्तम् , अत्र आरण्यकम्प्रति गवयः कीदृगिति ग्रामीणस्य गवयशद्ववाच्यमजाननस्य प्रश्नानन्तरं गवयशद्रप्रवृत्तिनिमित्तगवयत्वोपलक्षकगोसादृश्यसामानाधिकरण्येन गत्यशद्भवाच्यत्वस्य प्रतिपादकं गोसदृशो गवय इत्यतिवाक्यमारण्यकेन ग्रामीणम्प्रत्युक्तं तद्वाक्यार्थज्ञानमयं गवयपदवाच्य इत्युपमितौ करणं, वनं गतस्य तु ग्रामीणस्य यद्वयदर्शने सति गोसदृशोऽयमितिप्रत्यक्षं तत्तस्य व्यापारोऽनन्तरमयं गवयपदवाच्य इतिज्ञानमुपमितिस्तस्यास्वरूपं विषयस्वरूपोपदर्शनेन स्पष्टयति ।
पृ. १४. पं. १३ सज्ञेति-सज्ञा गवयेति नाम, सञी गवयरूपोऽर्थस्तयोस्सम्बन्धः गवयपदाद्वयो बोद्धव्य इतीश्वरेच्छारूपस्संकेतस्तस्य प्रतिपत्तिः अयं गवयपदवाच्य इति गवयो गवयपदवाच्य इति वा तद्रूपं तदात्मकम् उपमानमुपमितिरित्यर्थः । एतेनेत्यादिष्टमेव तन्मतनिरासहेतुमुपदर्शयति ।
पृ. १४. पं. १४ अनुभूतव्यक्तौ-प्रत्यक्षविषयव्यक्तावित्यर्थः ।
पृ. १४. पं. १५ अस्य-अयं गवयशद्धवाच्य इति ज्ञानस्य, ननु गोत्वं प्रवृत्तिनिमित्तीकृत्य गवयपदवाच्यत्वग्रहरूपमिदं ज्ञानमभिमतं तत्कथं प्रत्यभिज्ञानसामग्रीतो जायेत, गवयत्वस्य प्रागननुभूततयाऽतिदेशवाक्येन तदवच्छिन्ने गवयपदवाच्यत्वस्याप्रतिपादितत्वेन स्वाविषये तत्रातिदेशवाक्यार्थज्ञानेनो कज्ञानस्योत्पादनासम्भवात् , अन्यथा गोगवयत्वव्यतिरिक्तधर्मावच्छिन्नेऽपि गवयपदवाच्यत्वस्य प्रतिपत्तिर्भवेदित्यत आह ।