________________
१. प्रमाणपरिच्छेदः।
१३३ ध्यायेन समर्थिताऽपि सामान्यलक्षणाप्रत्यासत्तिर्दीधितिकारेण खण्डितैवेति खगोत्रकलहोऽपि नैयायिकानां तत्रेति तत्साधकतयोपन्यस्यमानं प्रमाणमाभास एवेत्याशयेनाह।
पृ. १५. पं. १४ प्रमाणाभावादिति-सामान्यलक्षणाभ्युपगमपक्षपातिनामालोककृतां पक्षधरमिश्राणां ।
वक्षोजपानकृत्काण संशये जाग्रति स्फुटं ।
सामान्यलक्षणा करसादकस्मादपलप्यते ॥१॥ इति वचनं सामान्यलक्षणानभ्युपगन्तारं दीधितिकारम्प्रतीति किं वदन्त्यपि श्रूयते । किञ्च प्राचीनमते ज्ञायमानं सामान्यं नवीनमते सामान्यज्ञानं सामान्यलक्षणाप्रत्यासत्तिरुपेयते नैयायिकैः, तत्र ज्ञाते सामान्ये सामान्यज्ञाने वा सति कुतस्तत्मत्यासत्याऽतीतानागतवर्तमानसकलज्ञानम्भवति, सकलधूमव्यक्तिषु धूमत्वसामान्यं समवायेन धूमत्वज्ञानं वा स्वविषयवत्वसम्बन्धेनास्तीति सकलव्यक्तीनां तेन सम्बन्धेन सन्निकृष्टत्वाविशेषादेकस्याव्यक्तेर्भानं नान्यस्या व्यक्तेरित्यत्र विनिगमकाभावाच्च सकलव्यक्तीनां भानमिति भवता वाच्यं तत्र सकलास्वेव धूमव्यक्तिषु धूमत्वसामान्यस्य सम्बन्धो न कतिपयधूमव्यक्तिमात्र एवेत्यत्र किंनिमित्तमित्येव पृच्छायां यदि सकलधूमव्यक्तिषु तन्न समवेयात्सामान्यमेव न भवेदित्यनिष्टापादनप्रसङ्गलब्धसत्ताका सकलधूमव्यक्तिवृत्तित्वमन्तरेणानुपपद्यमानतैव व्याप्तिस्वरूपिणी भवताऽऽश्रयणीया तज्ज्ञानार्थमूहाख्यतर्कोऽवश्यमेवाभ्युपेय इति धूमवद्विव्याप्त्यवगतये प्रथमत एव सोऽभ्युपेय इत्याशयेनाह ।
पृ. १५. पं. १४ ऊहं विनेति-वाच्यवाचकभावावगतिरपि तणैवेति व्यवस्थापयति ।
पृ. १५. पं. १५ वाच्यवाचकभावोऽपि...तस्यैव-तर्कस्यैव, यथा च वाच्यवाचकभावप्रतीतिदृश्यते तथा सा तर्केणैव सम्भविनीत्युपपाध दर्शयति ।
पृ. १५. पं. १७ प्रयोजकेति-आज्ञापयिता प्रयोजकः स चासौ वृद्धः गृहीत शब्दार्थवाच्यवाचकभावसम्बन्धकः, तेनोक्तमुच्चरितं गामानयेत्यादिवाक्यं ।