________________
१. प्रमाणपरिच्छेदः।
१२५ पृ. १३. पं. २१ किश्चेति...विलक्षणप्रतीतेरपि-प्रत्यक्षप्रतीतिविसदृशप्रतीतिबलादपि ।
पृ. १३. पं. २१ अतिरिक्तम्-प्रत्यक्षतो भिन्नम् ।
पृ. १३. पं. २२ एतत्-प्रत्यभिज्ञानम् , यदपि सोऽयं घट इत्यत्र विशेप्येण घटेन सह चक्षुरिन्द्रियस्य सन्निकर्षात् स इति तत्तारूपविशेषणस्मरणरूपज्ञाने सति जायमानस्य ज्ञानस्य विशेष्येन्द्रियसन्निकर्षजन्यत्वेन प्रत्यक्षत्व मेव युक्तमिति नैयायिकमतं तदपि प्रत्यभिजानामीतिविलक्षणप्रतीतितोऽतिरिक्ततया प्रत्यभिज्ञानस्य सिद्धया निरस्तमित्याह ।
पृ. १३. पं. २२ एतेन-अस्य निरस्तमित्यनेनान्वयः, तन्निरासे हेत्व. न्तरमप्याह ।
पृ. १३. पं. २३ एतत्सदृशः स इत्यादाविति...तदभावात्-विशेध्येन्द्रियसन्निकर्षाभावात् , स एवायं घट इत्यत्र पुरोवर्तिनो घटस्य विशेष्यत्वेन तेन सहेन्द्रियसन्निकर्षस्य भावेऽपि एतत्सदृशः स इत्यादौ सादृश्यरूपविशेषणे प्रतियोगितयेदमर्थस्य विशेषणत्वमेव तच्छद्धार्थस्य तत्ताविशिष्टस्यैव विशेष्यत्वं तेन सह नेन्द्रियसन्निकर्ष इतिभवदभिमतस्य प्रत्यक्षत्वप्रयोजकस्य विशेषणज्ञानसहकृत विशेष्यन्द्रियसन्निकर्षजन्यत्वस्य तत्राभावान्न तस्य प्रत्यक्षत्वं किन्तु तदतिरिक्तत्वमेवेति तस्य प्रमाणान्तरप्रत्यभिज्ञानत्वव्यवस्थितौ सोऽयं घट इत्यस्यापि प्रमाणान्तरप्रत्यभिज्ञानत्वमेवेति, किन स इति स्मृतिः अयमित्यनुभवः सोऽयमिति तयोःसङ्कलनमित्येवं क्रमोऽत्रानुभूयते न चैवं प्रत्यक्ष इत्यतोऽपि प्रमाणान्तरत्वमित्याह ।
पृ. १३. पं. २४ स्मृत्यनुभवेति-बौद्धाभ्युपगतजगत्क्षणभङ्गुरापाकरणार्थसर्वेऽपि स्थैर्यवादिनः प्रत्यभिज्ञानं प्रमाणतयोररीकुर्वन्त्येव, तत्र पूर्वापरकालीनयोरेक्यावग्राहित्वेनैव प्रत्यभिज्ञानं स्थैर्यसाधनाय क्षणभङ्गबाधनाय च प्रगल्भमिति पूर्वापरकत्वावगाहिज्ञानस्यैव प्रत्यभिज्ञानत्वं मीमांसकनैयायिकादयोऽभ्युपगच्छन्ति न तु सादृश्यवसदृश्यादिज्ञानानामपि, जैना पुनरनुभवस्मरणप्रभवानां सादृश्यादिज्ञानानामपि सङ्कलनात्मकत्वाविशेषादेकत्वमात्रविषयकत्वस्य प्रत्यभि