________________
१२४
जैनतर्कभाषा। । पृ. १३. पं. १३ इदम्-सोऽयं घट इत्यादिप्रत्यभिज्ञानम् , प्रत्यभिज्ञानस्य साक्षात्स इति यत्स्मरणमयमिति यत्प्रत्यक्षं ताभ्यां सममेवान्वयव्यतिरेकानुविधानं । ननु साक्षादिन्द्रियेण सहेति नास्य प्रत्यक्षत्वमनुभवस्मरणहेतुकत्वेन प्रमाणान्तरत्वमेवेति प्रतिक्षिपति । - पृ. १३. पं. १३ तन्नेति-प्रत्यभिज्ञानस्येन्द्रियजन्यत्वे ।
पृ. १३. पं. १५ प्रथमव्यक्तिदर्शनकाले-यत्कालात्पूर्व यद्वयक्तेर्दर्शनन्नाभूदथ च तत्काले तद्वयक्तेर्दर्शनमजनि, तत्काल एव ।
. पृ. १३. पं. १६ उत्पत्तिप्रसङ्गात्-प्रत्यभिज्ञानोत्पत्तिप्रसङ्गात् , साक्षादिन्द्रियसन्निकर्षजन्यमेव तद्भवतेष्यते इन्द्रियसन्निकर्षश्च तदानीमपि समस्त्येव, प्रथमदर्शनसमये प्रत्यभिज्ञानोत्पत्तिवारणाय नैयायिकः स्वमन्तव्यम्प्रकटयति ।
पृ. १३. पं. १७ अथेति-प्रथमव्यक्तिदर्शनकाले चैवं सति न प्रत्यभिज्ञानोत्पतिप्रसङ्गः, ततः पूर्व तदर्शनस्याभावेन तजनितसंस्काराभावे तत्प्रबोधस्याभावतस्तजन्यस्मृतेरभावे तद्रूपसहकारिणोऽभावानेन्द्रियन्तदानीं प्रत्यभिज्ञानमुत्पादयितुमलमित्यर्थः । स्मृतिनिरपेक्षेन्द्रियजन्यत्वमेव प्रत्यक्षत्वे प्रयोजकमिति न स्मृतिरिन्द्रियस्य सहकारिणी, यदिच स्मृतिसहकारेणेन्द्रियस्य प्रत्यक्षजनकत्वमभ्युपगम्येत, तदा मन एव व्याप्तिस्मरणलक्षणं सहकारिणमासाद्य पर्वतो वह्निमानितिज्ञानं कुर्यादितीन्द्रियजन्यत्वात्तदपि ज्ञानं प्रत्यक्षमेव भवेदित्युमानमपि प्रमाणान्तरन्न स्यादिति समाधत्ते ।
पृ. १३. पं. १८ तदनुचितमिति-उक्तकल्पनं नैयायिकस्य न समीचीनमित्यर्थः।
पृ. १३. पं. १९ अन्यथा-प्रत्यक्षस्य स्मृतिसापेक्षत्वाभ्युपगमे । यथा च प्रत्यक्षस्य प्रतीतिः साक्षात्करोमीत्येवंरूपा ततो विलक्षणा चानुमानस्यानुमिनोमीत्येवंरूपेति प्रत्यक्षाव्यतिरिक्ताऽनुमितिरिष्यते, तथा प्रत्यभिज्ञानस्यापि प्रत्यक्षप्रतीतिविलक्षणैव प्रत्यभिजानामीति प्रतीतिरिति प्रत्यक्षाद्भिन्नमेव प्रत्यभिज्ञानमभ्युपगन्तव्यमित्याह ।