________________
१. प्रमाणपरिच्छेदः।
१२३ पृ. १३. पं. ९ एतद्विषयत्वात्-प्रत्यभिज्ञानविषयत्वात् , भेदाख्यातिवादी प्रभाकरस्तु शुक्ताविदं रजतमित्यादिविशिष्टज्ञानलक्षणभ्रममपलपन् सर्वस्य ज्ञानस्य याथार्थ्यमेवोररीकुर्वन् भ्रमस्थले इदमितिज्ञानं प्रत्यक्षं रजतमितिज्ञानं स्मरणमित्यभ्युपेत्य तयोर्भदाग्रहादेव विसंवादिप्रवृत्तिरितिमन्यमानःप्रत्यभिज्ञानस्थलेऽपि स इतिस्मरणविषयस्यायमितिप्रत्यक्षविषयेण सहासंसर्गाग्रहादेव प्रत्यभिज्ञानकार्यसम्भवात्स्मरणप्रत्यक्षरूपज्ञानद्वयव्यतिरिक्तं विशिष्टज्ञानरूपं प्रत्यभिज्ञानं नास्त्येवेति प्रलपति तन्मतमपि प्रत्यभिज्ञानस्य पूर्वापरपर्यायानुगामिद्रव्यविषयकत्वव्यवस्थापनतो निरस्तमित्याह ।
पृ. १३. पं. १० अत एवेति-पूर्वापरविवर्त्तवत्येकद्रव्यस्य विशिष्टस्य प्रत्यभिज्ञानविषयकत्वादेवेत्यर्थः । अस्य निरस्तमित्यनेनान्वयः अगृहीतासंसर्गकं तत्त्वाविशिष्टेन सह इदन्ताविशिष्टस्यासंसर्गोऽभेदाभावलक्षणो न गृहीतो येन तथाभूतम् ।
पृ. १३. पं. ११ एतत्-सोऽयमितिप्रत्यभिज्ञानम् , विशिष्टज्ञानस्यागृहीतासंसर्गकज्ञानद्वयरूपतयोपपादने प्रत्यभिज्ञानवद्घटवद्भूतलमित्यादिज्ञानानामपि तथैवोपपादनसम्भवाद्विशिष्टज्ञानमात्रमुच्छियेतेत्याह ।
पृ. १३. पं. ११ इत्थं सतीति-विशिष्टज्ञानरूपस्यापि प्रत्यभिज्ञानस्य निरुक्तज्ञानद्वयरूपत्वे सतीत्यर्थः, प्रत्यभिज्ञानमिन्द्रियसनिकर्षजन्यत्वात्प्रत्यक्षमेव, तत्तांशे इन्द्रियसंयुक्तमनस्संयुक्तात्मसमवेतसविषयकरूपो ज्ञानलक्षणालोकिकसन्निकर्ष इदमांशे च संयोगादिलक्षणलौकिकसन्निकर्षः, उबुद्धसंस्कारादेव प्रत्यभिज्ञानाभ्युपगमेऽलौकिकसन्निकर्षः संस्काररूपः, स्मरणोत्तरं तदभ्युपगमे स्मरणमेवालौकिकसन्निकर्ष इतिप्रत्यभिज्ञानं न प्रमाणान्तरमितिनैयायिकमतं प्रतिक्षेप्तुमुपन्यस्यति ।
पृ. १३. पं. १२ तथापीति-प्रत्यभिज्ञानस्य विशिष्टरूपत्वेऽपीत्यर्थः ।
पृ. १३. पं १२ अक्षान्वयव्यतिरेकानुविधानात्-चक्षुरादीन्द्रियसनिकर्षे सति प्रत्यभिज्ञानोत्पादः, तदभावे प्रत्यभिज्ञानानुत्पाद इत्येवमक्षेण सह प्रत्यभिज्ञानस्यान्वयव्यतिरेकयोरनुविधानात् ।