________________
१२१
जैनतर्कभाषा । त्यभिज्ञानमवगन्तव्यम् । यदपेक्षया यहूरं तस्य स्मरणे सत्येव दूरस्य वस्तुनोऽनुभवे सति इदं तस्मादूरमितिज्ञानमुदेत्यतोऽनुभवस्मृतिहेतुकत्वात्प्रत्यभिज्ञानमवसेयम् , इदं तस्मात्समीपमित्यादिज्ञानेऽप्युक्तदिशा प्रत्यभिज्ञानता भावनीया । यश्च बौद्धः प्रत्यभिज्ञानस्य प्रामाण्यन्नाभ्युपगच्छति तन्मतं प्रतिक्षेप्तुमुपन्यस्यति ।
पृ. १३. पं. ५ तत्तेदन्तेति-सोऽयमित्यत्र स इत्यनेन तत्तारूपोऽस्पष्टाकारः इदमित्यनेनेदन्तारूपस्पष्टाकारोऽवभासते, स्पष्टास्पष्टाकारयोश्च विरोधानेकत्र ज्ञाने सम्भव इति स इतिज्ञानं पृथग् अयमितिज्ञानश्च पृथगिति सोऽयमित्येकज्ञानस्य प्रत्यभिज्ञानतयाऽभिमतस्याभावादेव न प्रामाण्यसम्भव इति बौद्धाभिप्रायः । अनुभूयमानस्यापलापो न सम्भवति यथा तव मते आकाराकारिणोरमेदाज्ज्ञानान्तरं विभिन्नाकारं विभिन्नमेव, अथापि नीलपीतेत्याकारकमेकं चित्रज्ञानमाकारभेदेऽपि स्वीकरणीयमेवेति समाधत्ते ।
पृ. १३. पं. ६ तन्नेति, तस्य-सोऽयमितिज्ञानस्य अथवा सोऽयमितिज्ञानमस्पष्टैकरूपमेवेति नाकारमेदः, इदन्तोल्लेखश्च स्मृतिस्वरूपव्यावृत्तिकृतं प्रत्यभिज्ञानस्वाभाव्यनिबन्धनमेव, प्रत्यभिज्ञानसामग्री च अनुभवस्मृतिघटितस्वावरणक्षयोपशमरूपा अस्पष्टतत्स्वरूपजनिकैवेति न स्पष्टतेत्याह ।
पृ. १३. पं. ७ स्वसामग्रीति-प्रत्यभिज्ञानसामग्रीत्यर्थः ।
पृ. १३. पं. ७ अस्य-प्रत्यभिज्ञानस्य स इति स्मरणविषयः अयमिति च प्रत्यक्षविषयः । तदुभयभिन्नस्तु नास्त्येव प्रत्यभिज्ञानस्य विषय इति विषयाभावे विषयिणोऽपि ज्ञानस्याभाव इति बौद्धःशङ्कने । - पृ. १३. पं. ८ विषयाभावादिति-इदं प्रत्यभिज्ञानम् , पूर्वापरकालवतिनोः पर्याययोरनुगामि यद्व्यं तन्न स्मरणस्य विषयो नापि प्रत्यक्षस्य विषय इति तदेव द्रव्यं प्रत्यभिज्ञानस्य विषयः, तद्रव्यं चाभेदस्वरूपं पूर्वापरपर्यायविशिष्टं सत्मत्यभिज्ञाने भासत इत्यतिरिक्तविषयत्वाद्भवति प्रत्यभिज्ञानम्प्रमाणमिति समाधत्ते ।
पृ. १३. पं. ९ न पूर्वापरविवर्त्तवृत्तीति-पूर्वापरपर्यायानुगामीत्यर्थः ।