________________
१. प्रमाणपरिच्छेदः। भिज्ञानं तिर्यक्सामान्यगोचरं, किश्चिच ऊर्ध्वतासामान्यगोचरं, आदिपदात्सादृश्य-वैलक्षण्य-दूरत्व-समीपत्व-प्रांशुत्व-हस्वत्वादिसनिरूपकधर्माणामुपग्रहः तेन सादृश्यादिगोचरमपि ज्ञानं प्रत्यभिज्ञानमित्यर्थः । अत्र विभिन्न देशकालस्थितानां घटादिव्यक्तीनां सदृशाकारपरिणामलक्षणं घटत्वादिसामान्यं तिर्यक्सामान्यं, कुण्डलकटकादिपूर्वापरपर्यायानुगामिसुवर्णादिद्रव्यश्च ऊर्ध्वतासामान्यमितिविवेकः, उदाहरति
पृ. १३. पं. १ यथेति-तजातीय एवायं गोपिण्ड इति तिर्यक्सामान्यावगाहिप्रत्यभिज्ञानम् , एको गोपिण्डः पूर्वमुपलब्धः अनन्तरं यदा कदापि द्वितीयो गोपिण्डो दृश्यते तदानीं पूर्वानुभृतां गोव्यक्ति स्मरतः पुंसस्तजातीय एवायं गोपिण्ड इतिज्ञानमुपजायते, तच्च ज्ञानं पूर्वानुभूतगोव्यक्तिगतसमानाकारपरिणामलक्षणगोत्वजातिमचं पुरोवर्तिन्यां गोव्यक्ताववगाहत इति, गोसदृशो गवय इत्यपि प्रत्यभिज्ञानं गोत्वातिरिक्तपूर्वानुभूतगोव्यक्तिगतकतिपयसमानाकारलक्षणतियक्सामान्यवचप्रयोज्यसादृश्यवत्वमेव गवये वर्तमानानुभवविषयेऽवगाहत इति तिर्यकसामान्यावगायेव सत्सादृश्यावगाहिप्रत्यभिज्ञानम् । स एवायं जिनदत्त इति तु ऊर्ध्वतासामान्यावगाहिप्रत्यभिज्ञानं, यतः बाल्यावस्थाकलितो जिनदत्तः पूर्वमनुभूतः स एव युवा पुनरिदानीमनुभवपदवीमुपगतस्ततः पूर्वदृष्टं बालं तं स्मरतः इदानीं युवानं पश्यतः पुंसः स एवायं जिनदत्त इति ज्ञानम्भवति, अवयवोपचयापचयाभ्याश्च न बालयुवशरीरयोरैक्यमिति तच्छरीरद्वयानुगाम्येकजिनदत्तशरीरद्रव्यरूपोर्ध्वतासामान्यं यदवलम्बनेनैक्यावगायुक्तज्ञानमिति । अनयैवदिशा स एवायं घटः स एवायं पट इत्यादिप्रत्यभिज्ञानानामप्यूर्ध्वतासामान्यावगाहित्वं भावनीयम् , स एवानेनार्थः कथ्यत इत्यपि पूर्वपुरुषकथितार्थेन सहैतत्पुरुषकथितार्थस्वजात्याऽभेदे तिर्यक्सामान्यावगाहि, व्यक्त्याऽभेदे तु पर्यायतो भेदस्यावश्यम्भावत ऊर्ध्वतासामान्यबलादेवाभेद इति ऊर्ध्वतासामान्यावगाहि प्रत्यभिज्ञानमिति, को महिष इति कस्यचिजिज्ञासायां यदेतद्गवांककदम्बके गोभ्यो विलक्षणः स महिष इतिज्ञानमुत्पद्यते तद्वैलक्षण्यावगाहिप्रत्यभिज्ञानमित्याह ।
पृ. १३. पं. १ गोविलक्षणो महिष इति-अन्यदाऽपि च केवलमहिषव्यक्तिदर्शने गवां स्मरणे गोविलक्षणो महिष इतिज्ञानमनुभवस्मृतिहेतुकत्वात्प्र૧૬