________________
१२०
जनतर्कमाषा । प्तिज्ञाने सामान्येनैव धूमाधिकरणे सामान्यत एव वह्विसिते, अनुमितो तु विशेषतो धूमादाकरणे पर्वतरूपपक्षे पर्वतीयो वह्निर्भासते तथा व्याप्तिज्ञाने वहिसम्बन्धतया संयोग एव भासते । अनुमितौ पुनः पक्षतावच्छेदकीभूतपर्वतव्यापकवह्निप्रतियोगिकसंयोगो वह्नेर्भासत इति न व्याप्तिगृहीतमात्रस्यानुमितौ मानमितिविषयपरिच्छेदे स्वातन्त्र्यमत्स्येवानुमितेरिति शङ्कते ।
पृ. १२. पं. २४ नैयत्येनेति-प्रतिनियतपर्वतत्वादिरूपपक्षतावच्छेदकरूपेण पक्षतावच्छेदव्यापकविधेयप्रतियोगिकसंयोगत्वादिरूपेण चेत्यर्थः । - पृ. १२. पं. २४ अभात एव-व्याप्तिज्ञानेऽप्रतिभात एव, अर्थः पर्वतादिः।
पृ. १२. पं. २४ अनुमित्या पर्वतो वह्निमानित्यनुमित्या, अयं घट इत्यनुभवे इदन्तैव भासते, न तु पूर्वकालवृत्तित्वरूपा तत्तेति तद्रूपेणानुभवेऽप्रतिभात एवं घटादिरर्थस्सद्य इतिस्मृत्या विषयीक्रियते इति स्मृतेरपि स्वविषयपरिच्छेदे स्वातन्त्र्यं समानमेवेति समाधत्ते ।
पृ. १२. पं. २५ तर्हि तत्तया...न किश्चिदेतत्-स्मृतेःपारतन्यान प्रामाण्यमिति न समीचीनमित्यर्थः ।।
॥ इति स्मृतिनिरूपणम् ॥
॥ अथ प्रत्यभिज्ञाननिरूपणम् ॥ प्रत्यभिज्ञानं निरूपयति ।
पृ. १२. पं. २८ अनुभवेति-प्रत्यभिज्ञानमिति लक्ष्यनिर्देशः, सङ्कलनास्मकं ज्ञानमितिलक्षणनिर्देशः । अनुभवस्मरणाभ्यां सम्भूय सङ्कलनात्मकमेकं ज्ञानं जन्यत इति अनुभवस्मृतिकमिति कारणनिर्देशः तिर्यगूतासामान्यादिगोचरमितिविषयकथनम् , अनुभवस्मरणविषययोस्तादात्म्यादिसम्बन्धेन विशेषणविशेष्यभावेनावगाहिज्ञानं सङ्कलनात्मकं ज्ञानं तत्प्रत्यभिज्ञानं । तच अयं घट इत्यादियों वर्तमानविषयकोऽनुभवः स घट इत्यादिकं यत्पूर्वानुभूतार्थस्सरणं ताभ्यां जन्यत इति अनुभवस्मृतिहेतुकम् , ॥
पृ. १२. पं. २८ तिर्थगूलतासामान्यादिगोचरमिति-किश्चित्मत्य