SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२६ जैनतर्कभाषा । ज्ञानत्वेऽतन्त्रत्वात्प्रत्यभिज्ञानत्वमामनन्ति, तत्र सादृश्यज्ञानस्योपमानत्वमेव न तु प्रत्यभिज्ञानत्वमिति भट्टमतं कदाग्रहविलसितमेवेत्यावेदयितुमुपन्यस्यति। पृ. १३. पं. २६ अत्राह भाट्ट इति-भाट्टः-कुमारिलभट्टानुयायी, किमाहेत्यपेक्षायामाह। - पृ. १३. पं. २६ नन्वेकत्वज्ञानमिति-पूर्वदृष्टेन सहेदानीमनुभूयमानस्याभेदावगाहिज्ञानम् , पृ. १३. पं. २६ सादृश्यज्ञानन्तु-गोसदृशो गवय इति ज्ञानं यद्भवता प्रत्यभिज्ञानतयोदाहृतं तत्पुनः, दृष्टे गये स्मृताया गोसादृश्यज्ञानस्योपमानत्वे भट्टस्य सम्मतिमाह। ___ पृ. १३. पं. २८ तदुक्तमिति...तस्मादिति-अयमर्थः, दृष्टाद्वयात् यत्पूर्वदृष्टं स्वकीयगोस्वरूपं मर्यते तद्गोस्वरूपं सादृश्येन विशेषितं गवयसादृश्यविशिष्टं सत् उपमानस्य अनेन सदृशी मदीया गौरित्युपमितेः प्रमेयं विषयः स्यात् । पृ. १४. पं. २ वा-अथवा तदन्वितम्-स्मृतगोव्यक्तिविशिष्टं सादृश्यं अनुभूयमानगवयसादृश्यं । पृ. १४ पं. २ उपमानस्य-अनेन गवयेन सादृश्यं मदीयायां गवीत्युपमितेः प्रमेयं स्यात् , अनेन सदृशी मदीया गौरित्यस्योपमितित्वे गोसदृशो गवय इति ज्ञानं तत्करणत्वादुपमानं, अनेन सादृश्यं तत्रेत्यस्योपमितित्वे तत्सादृश्यमस्येतिज्ञानं तत्करणत्वादुपमानं बोध्यम् । दर्शितोपमितिप्रमेयस्यान्यप्रमाणादसिद्धरुपमानमेव तत्र प्रमाणान्तरमास्थेयमित्याह ।। पृ. १४. पं. ३ प्रत्यक्षेणेति-प्रत्यक्षेण गोसदृशोऽयमिति प्रत्यक्षेण अवबुद्धेऽपि ज्ञातेऽपि । पृ. १४. पं. ३ सादृश्ये-गवयनिष्ठगोसादृश्ये, गवि च स्मृते सरणविषये गवि पुनः।
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy