________________
१४
नतर्कभाषा । स्यात्तदा तेनैव रूपादिज्ञानजननसम्भवाच्चक्षुरादिपञ्चेन्द्रियकल्पनवैयर्थ्यमेव प्रसज्येत, तथेत्यर्थः।
पृ. १२. पं. १ अस्य-केवलज्ञानस्य, केवलिनो जिनस्य कवलाहारं दिगम्बरा नाभ्युपगच्छन्ति, केवलज्ञानस्य ज्ञानान्तराद्यथा सर्वविषयकत्वलक्षणो विशेषः तथास्वयोगिनि पुरुषधौरेये कवलाहारमन्तरेणापि शरीरधारणसामाधानमिति । तथा च ये कवलभोजिनस्ते न केवलज्ञानवन्तः, ये च केवलज्ञानवन्तस्ते न कवलभोजिन इति तन्मतमुपन्यस्य प्रतिक्षिपति ।
पृ. १२. पं. ३ कवलभोजिन इति कवलाहारकारिण इत्यर्थः ।
पृ. १२. पं. ३ कैवल्यम्-केवलज्ञानवत्त्वम् , एतदुक्तिश्च श्वेताम्बराणामसाकं केवलिनि कवलाहारमभ्युपगच्छतां मतस्य विद्वेषेणेति
पृ. १२. पं. ३ दिक्पटः-दिगम्बरः।
पृ. १२. पं. ३ तन्न-उक्तमतं न समीचीनम् , केवलज्ञाने जातेऽपि केवलिनि आहारपर्याप्तिनामकर्मणोऽसातवेदनीयकर्मणश्चोदयादेः कवलभोजनकारिणस्यास्मदादाविव सद्भावेन कवलाहारस्य तत्र सम्भवात् , न चोक्तकारणप्रसूतस्य कवलाहारस्य केवलज्ञानेन विरोधो येन तस्मिन् सति स न भवेत् , ज्ञानावरणादिकर्मणामेव केवलज्ञानेन सह विरोध इति तस्मिन्सति तेषामेवाभाव इत्याह ।
पृ. १२. पं. ४ आहारपर्याप्तीति-यस्य कर्मणो बलादाहारं कर्तुं प्रभवति जन्तुस्तदाहारपर्याप्तिनामकर्मेत्यर्थः । सातं सुखं तद्भिन्नमसातं दुःखं तद्वेदनन्तदुपभोगस्तदनुभवो यस्य कर्मण उदयाद्भवति तदसातवेदनीयं कर्म तदुदयादिजन्यया कवलभुक्त्या कवलाहारेण समं कैवल्यस्य केवलज्ञानवत्वस्य विरोधाभावात् एककालावच्छेदेनैकत्राप्यात्मनि तयोस्सम्भवादित्यर्थः ।
पृ. १२. पं. ५ घातिकर्मणामेवेति-येन कर्मणाऽऽवेष्टितो नितरां बद्धो जन्तुर्जगति नरामरतिर्यक्नरकगतिषु जन्मादिकमनुभवति । तत्कर्म अष्टविधं, तत्र नामादीनि चत्वारि कर्माणि अघातीनि आत्मनो ज्ञानदर्शनचारित्रवीर्यरूपगुणस्याविघातकानि ज्ञानादीनां सद्भावकालेऽपि तेषां सद्भावात्स्वफलोपभोगेनैव