________________
१. प्रमाणपरिच्छेदः ।
न भवेत्, तथा च तत्प्रभवाऽनुमितिरपि न स्यात्, तथा पर्वतो वह्निमान्धूमादित्यादौ यो यो धूमवान् स स वह्निमानित्येवं सर्वोपसंहारेण व्याप्तिग्रहणमपि कालान्तरीय देशान्तरीयधूमवह्नयादिग्रहणे सत्येव युज्यते नान्यथेति ज्ञानमात्रस्य सर्वविषयत्वमेवमपि यन्न विशेषतः स्वविषये प्रवृत्तिस्तत्रावरणमेव तन्त्रमित्याह ।
११३
पृ. ११. पं. २४ असर्वविषयत्वे इति - ज्ञानं हि स्वप्रकाशस्वभावत्वास्पष्टमेव, तथापि यत्क्वचिद्विषयेऽस्पष्टं तत्पर निबन्धनं, परञ्च तत्रावरणमेवेत्याह । पृ. ११. पं. २४ सावरणत्वाभाव इति, सिद्धे चैवमावरणस्वरूपे कर्मणि सम्यग्दर्शनादिना तस्यात्यन्तक्षये जायमानस्य ज्ञानस्य कैवल्यमपि निरावरणत्वलक्षणं सिद्धिपथमेतीत्याह ।
पृ. ११. पं. २५ आवरणस्य चेति योगाभ्यासजनितधर्मविशेष सहकृतमनसा योगिनः सर्वविषयकं ज्ञानम्प्रादुरस्ति तदेव केवलज्ञानमितिवैशेषिकादयः प्रलपन्ति तन्मतमपाकर्तुमाह ।
पृ. ११. पं. २७ योगजे ति - योगाभ्यासजनितेन धर्मेण सहकृतं यन्मनस्तज्जन्यमेव एवकारेण भावनाप्रकर्षजन्यं केवलज्ञानमित्यादेर्व्यवच्छेदः ।
पृ. ११. पं. २७ इदम् - केवलज्ञानम् ।
पृ. ११. पं. २७ केचित् - वैशेषिकादयः, वदन्तीति शेषः
पृ. ११. पं २७ तन्न–उक्तमतं न समीचीनम्, यो यस्य विषयस्तज्ज्ञानमेव तेन जन्यते न हि रूपज्ञानं चक्षुभिन्नेन केनापीन्द्रियेण किन्तु चक्षुषैच, एवं रसादिज्ञानमपि रसनादीन्द्रियेण, सहकारिकारणन्तु स्वविषय एव करणस्य बलमादधाति न तु स्वाविषये करणप्रवृत्तिमाधातुमलमिति आत्ममात्रापेक्षस्य स्वावरणक्षयसमुत्थस्य केवलज्ञानस्य जनने न योगाभ्यासजनितधर्मविशेषसहकृतस्यापि मनसः सामर्थ्यंमिति न तादृशमनःप्रभवन्तदित्याह ।
पृ. १२. पं. १ धर्मानुगृहीतेनापीति- योगजधर्मसहकृतेनापीत्यर्थः ।
पृ. १२. पं. १ पञ्चेन्द्रियार्थज्ञानवदिति यथा च चक्षुरादिजन्यत्वेनाभिमतस्य रूपादिज्ञानस्य जननेन मनसः सामर्थ्यं यदि मनसस्तत्र सामर्थ्य
१५