________________
११२
जैनतःभाषा । कालश्चेतिषद् , जीवादीनां सपदेशत्वादस्तिकायत्वं, यो ह्यश्ययः प्रदेशिसम्बन्ध एव सर्वदाऽवतिष्ठते स प्रदेशः, ईदृशं प्रदेशमादाय सप्रदेशत्वं यद्यपि न पुद्गलानां, तथापि स्वात्मकसंघातनिविष्टैकदेशलक्षणावयवस्य प्रदेशत्वमुपचर्य सप्रदेशत्वं ज्ञेयम् । कालस्तु परमनिरुद्धसमयकस्वरूपत्वान्नास्तिकायः । गुणपर्यायवद्वदव्य. मिति द्रव्यलक्षणमिति । द्रव्यस्य सहभावी पर्यायो गुणः क्रमभावी पर्यायस्तु पर्यायेतिसामान्यसंज्ञया गीयते, द्रव्यपर्याययोरन्तर्भूतमेव सकलं वस्त्विति निखिलतदुभयसाक्षात्कारिणः केवलज्ञानस्य सकलप्रत्यक्षत्वं युक्तयुपपन्नमेवेति । यथा च पारमार्थिकप्रत्यक्षमप्यवधिज्ञानं अनुगाम्यादि भेदेन षड्विधं, मनः पर्यवज्ञानश्च ऋजुमतिविपुलमतिभेदेन द्विविधं, तयोःकारणीभूतानां स्वावरणक्षयोपशमविशेषाणामवान्तरतारतम्यसम्भवात् , न तथा केवलज्ञानं सभेदं, तत्कारणस्याशेषस्वावरणात्यन्तक्षयस्येकत्वात् , कारणभेदाभावे कार्यभेदासम्भवादित्याह -
पृ. ११. पं. २२ तचेति-केवलज्ञानश्चेत्यर्थः ।
पृ. ११. पं. २२ भेदरहितम्-अवान्तरविशेषशून्यम् । एकविधमेवेति यावत् , यथा हि कुड्याद्यन्तरितवस्तु चक्षुर्नविभासयतीति कुड्यादिकमावरणं तथा बाह्यमत्र नावरणं देशकालस्वभावविप्रकृष्टानां दूरादिव्यवस्थितातीतानागतकालीनाण्वादिस्वरूपाणामपि पदार्थानां ज्ञानेनावभासनाकिन्तु कर्मैव ज्ञाने आवरणं यद्शात्सन्निहितमपि वस्तु नावभासयति यस्य च क्षयोपशमादत्यन्तक्षयाद्वा व्यवहितमपि ज्ञानं प्रकाशयतीत्याह
पृ. ११. पं. २२ आवरणश्चेति-अत्र ज्ञाने, चर्मचक्षुषामसदृशां ज्ञानमपि स्वभावतः सर्वविषयकमेव, एवमपि यत्किञ्चित्प्रकाशयति किश्चिच न प्रकाशयति तत्र सावरणत्वमेव निवन्धनं तदुक्तं ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिवन्धरि तथा च असदादिज्ञानं सावरणं स्वविषयेऽप्रवृत्तिमत्वात् , यन्नैवं तन्नैवं यथा क्षायिकं केवलज्ञानमित्याह
पृ. ११. पं. २३ स्व विषय इति-अस्मदादिज्ञानमप्यस्पष्टतया सर्व गृहात्येव तत्काले यत्स्पष्टतया न सर्वस्य ग्रहणं तत्र सावरणमेव निबन्धनम् , अस्पष्टतयाऽप्यस्मदादिज्ञानस्य सर्वविषयकत्वाभावे, इदं वाच्यं प्रमेयत्वादित्यादौ यद्यत्प्रमेयं तत्तद्वाच्यमित्येवं प्रमेयत्ववाच्यत्वयोस्सर्वेऽपि संहारेण व्याप्तिग्रहणमपि