________________
१. प्रमाणपरिच्छेदः।
॥ अथ केवलज्ञाननिरूपणम् ॥ केवलज्ञानं निरूपयति
पृ. ११. पं. २१ निखिलेति–अत्र निखिलद्रव्यपर्यायसाक्षात्कारीति लक्षणनिर्देशः, केवलज्ञानमिति लक्ष्य निर्देशः । मत्यादिज्ञानानां क्षायौपशमिकानां चतुर्णामपि निखिलद्रव्यपर्यायसाक्षात्कारित्वाभावान्न तेष्वतिव्याप्तिः, केवलज्ञानश्च करामलकवद्विश्वमेव साक्षात्करोति, ज्ञानस्य सामान्यतो ज्ञेयमात्रावभास. नस्वभावो निजगतावरणकर्मणा प्रतिरुध्यते, स्वाशेषावरणक्षयसमुत्थस्य तु केवलस्य स्वविषये ज्ञेयस्वभावे जगति लेशतोऽप्यावरणाभावायुज्यते तस्य निखिलद्रव्यपर्यायसाक्षात्कारित्वमितिलक्षणसमन्वयः । प्रमाणसामान्यलक्षणे पूर्वमेवोक्तं दर्शनेतिव्याप्तिकारणाय ज्ञानपदमिति प्रमाणरूपज्ञानस्यैव प्रत्यक्षपरोक्षभेदेन प्रथमं द्वैविध्यं ततः प्रत्यक्षस्य सांव्यवहारिकपारमार्थिकभेदेनद्वैविध्यं तत्र पारमाथिंकेष्ववधिमनःपर्यवकेवलज्ञानलक्षणप्रत्यक्षेषु यदिदं केवलज्ञाननिरूपणं प्रक्रान्तं तत्केवलज्ञानानुगाम्येव न तु केवलदर्शनानुगामीति, ततः प्रकृतलक्षणमिदं केवलदर्शनेनगच्छे दित्येतदर्थ सामान्यधर्मानवच्छिन्ननिखिलधर्मनिष्ठप्रकारतानिरूपितनिखिलधर्मनिष्ठविशेष्यताकसाक्षात्कारित्वं केवलज्ञानस्य लक्षणं वक्तव्यं दर्शने च केवले सामान्यात्मना सकलद्रव्यपर्यायसाक्षात्कारिण्यपि सप्रकारकत्वाभावान परिष्कृतलक्षणवत्वं केवलोपयोगमात्रस्य लक्ष्यत्वे तु यथाश्रुतलक्षणमपि सङ्गतमेवेति बोध्यम् ।
पृ. ११. पं. २१ अत एव-निखिलद्रव्य पर्याय साक्षात्कारित्वादेव । पृ. ११. पं. २१ एतत्-केवलज्ञानम् ।
पृ. ११. पं. २१ सकलप्रत्यक्षम्-सकलवस्तुविषयकप्रत्यक्षम् , पारमार्थिकप्रत्यक्षत्वाविशेषेऽपि विकलविषयकत्वादवधिमनःपर्यवज्ञानयोर्विकलप्रत्यक्षं केवलज्ञानस्य तु सकलवस्तुविषयकत्वात्सकलप्रत्यक्षत्वमित्यर्थः । सकलप्रत्यक्षस्यास्य विषयतया निखिलद्रव्यपर्याययोरेवोपादानाजगति द्रव्यपर्यायानन्तर्भूतं नास्त्येव तत्वमित्यावेदितं । तत्र द्रव्याणि जीवपुद्गलधर्माधर्माकाशास्तिकायाः पश्च