________________
जैनतर्कभाषा ।
ज्ञानत्वं लक्षणमुच्यते तदा तस्य लक्षणस्य समन्वयस्तत्र न भवेत्, चिन्तनीयबाह्य पदार्थज्ञानस्यापि मनः पर्यवज्ञानत्वभावात् न चैवमुच्यते, किन्तु मनोमात्रसाक्षात्कारित्वं तल्लक्षणमुच्यते तच्च सम्भवत्येव, यतः मनःपर्यवज्ञानिनो ज्ञानं मनोद्रव्यस्यैव साक्षात्कारि, चिन्तनीयवस्तु बाह्यघटादिरनुमित्यात्मकमेव तस्य ज्ञानं, चिन्तकस्यायं मनसो घटाद्याकारपर्यायः चिन्तनीयबाह्यवस्तुजनितः तदाकारपर्यायत्वात्, यो यदाकारपर्यायः स तद्वस्तुजनितः स्फटिके जपाकुसुमरक्ताकारपर्यायवदित्येवमनुमानप्रयोगोऽत्र बोध्यः ।
११०
पृ. ११. पं. १२ तदिति- मनः पर्यवज्ञानम्, ऋजुमतिमनः पर्यवज्ञानं, विपुलमतिमनः पर्यवज्ञानमित्येवं द्विविधमित्यर्थः । अन्वर्थः ।
पृ. ११. पं. १४ अल्पविशेषपरः - अल्पविशेषप्रतिपादकतयाऽभीष्टः, तथा च विपुलमतिमनः पर्यवज्ञानं मनोद्रव्यस्य यावतो विशेषान्गृह्णाति ततोऽल्पतरविशेषान् ऋजुमति गृह्णातीत्यर्थः
पृ. ११. पं. १४ . अन्यथेति - स्वोक्तस्यैव विवरण सामान्यमात्रग्राहित्व इति । विपुलमतिमनःपर्यायज्ञानस्वरूपं प्रकटयति
----
पृ. ११. पं. १५ विपुलेति - अस्यार्थोविशेषग्राहिणीति, ऋजुमत्यपेक्षया बहुत रविशेषग्राहिणीति तदर्थः, उक्तमेवार्थं स्पष्टयति
पृ. ११. पं. १६ तत्रेति - ऋजुमतिविपुलमत्योर्मध्य इत्यर्थः ।
पृ. ११. पं. १७ तत् चिन्तितं घटादि ।
पृ. ११. पं. १८ एते - अनन्तरनिरूपिते
पृ. ११. पं. १८ द्वे ज्ञाने - अवधिमनः पर्यवज्ञाने
पृ. ११. पं. १८ विकलविषयकत्वात् - असकलवस्तुविषयकत्वात् ।
पृ. ११. पं. १९ परिभाष्यते - जैनाचार्यकतृकसङ्केतोऽवधिज्ञानं मनःपर्यवज्ञानञ्च विकलप्रत्यक्षशद्वाद्बोद्धव्ये इत्याकारकपरिभाषातद्विषयौ
॥ इति मनपर्यवज्ञाननिरूपणम् ॥