________________
१. प्रमाणपरिच्छेदः।
११५ तेषां विनाशात् , यानि तु ज्ञानावरण-दर्शनावरण-मोहनीयाऽन्तराख्यानि ज्ञानादिगुणानां विघातकानि तानि घातिकर्माणि तेषामेवेत्यर्थः ।
पृ. १२. पं. ५ तद्विरोधित्वात्-कैवल्यविरोधित्वात् । नन्वाहारपर्याप्त्यसातावेदनीयादि कर्म यद्यपि केवलिनि समस्ति तथापि केवलज्ञानज्योतिषा दग्धरज्जुकल्पन्तदिति न स्वकार्यकवलाहारकरणक्षममतो न कवलाहारो भगवत इत्याशङ्कते । दग्धरज्जुस्थानीयादिति दग्धरज्जुसदृशादित्यर्थः, सादृश्यश्च खकार्यकरणाक्षमत्वेन, कर्माभाववन्धहेतुः रज्जुश्च द्रव्यबन्धहेतुरित्येवंभेदेऽपि सामान्यतो बन्धहेतुत्वन्तयोस्समानं, दग्धरज्जोर्यथा न बन्धहेतुत्वन्तथा प्रकृतकर्मणोऽपि केवलज्ञानकाल इति ।
पृ. १२. पं. ६ ततः-आहारपर्याप्त्यादितः ।
पृ. १२. पं. ६ तदुत्पत्तिः -कवलभुक्तिजन्म । यदि केवलज्ञानकाले सदपि आहारपर्याप्तादिकर्म स्वफलन्न कुर्याद् दग्धरज्जुकल्पत्वात् , एवं सति तदानीं तथैव दग्धकल्पादायुःकर्मणोऽपि श्वासप्रश्वासादिलक्षणप्राणसञ्चारस्वरूपभवोपग्रहो न भवेदिति केवलज्ञानानन्तरमेव मरणं प्रसज्येतेति समाधत्ते ।
पृ. १२. पं. ६ नन्वेवं तादृशात्-केवलज्ञाने सति दग्धरज्जुकल्पात्
पृ. १२. पं. ६ आयुषः-जीवनादृष्टस्वरूपायुःकर्मणः । भवोपग्रहोऽपि . कश्चित्काले संसारेऽवस्थानमपि केवलिनः औदारिकशरीरस्थित्यन्यथानुपपत्यापि केवलिनि कवलाहारोऽभ्युपगन्तव्य इत्याह । __पृ. १२. पं. ६ किश्चेति-कार्मण तैजस वैक्रिय आहारक औदारिकमेदेन जैनमते शरीरं पञ्चविधम् । तत्र ज्ञानावरणीयाद्यष्टविधकर्मसमूहस्वरूपं कार्मणम् , तत्सहचरितमेव तैजसशरीरं, यतः शरीरे औष्ण्योपलब्धिः , देवादीनां वैक्रियशरीरं यद्धलाद्यथेच्छति तथा शरीरमेषां भवति, आहारकलब्धिमतामाहारकशरीरं तदल्पकालस्थायि, यच्छरीरमुपादाय देशान्तरस्थितकेवलिभगवानिकटे स्वप्रश्नोत्तरावाप्त्यर्थं तूर्णं गच्छति, ततो झटित्येवागत्य तच्छरीरं मुश्चति । दृश्यमानश्चेदं शरीरमौदारिकम् , एतस्य शरीरस्य स्थितिः कवलाहारवलादेवासदादीनां दृष्टेति