SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०७ १. प्रमाणपरिच्छेदः। पृ. १०. पं. २० प्रतीची-पश्चिमांदिशम् । पृ. १०. पं. २० अनुसरत्यपि-गच्छत्यपि । पृ. १०. पं. २० तत्र-सूर्ये, अन्यत्रोत्पन्नस्य प्रकाशस्यान्यत्रानुगमनमुपदर्य अवधिज्ञानस्य तदुपपादयति । ___ पृ. १०. पं. २१ तथैतदपि-अवधिज्ञानमपि, एकसिन्क्षेत्रे प्रतिनियते यस्य पुंस उत्पन्नमवधिज्ञानं तस्मादेशादन्यस्मिन्क्षेत्रे गच्छतोऽपि तस्य पुंसस्तदवविज्ञानं विषयं प्रकाशयतीत्यर्थः । पृ १०. पं. २२ उत्पत्तिक्षेत्र ऐवेति-यस्मिन्क्षेत्रे स्थितस्य पुंसोऽवधिज्ञानं यदुत्पन्नं तत्क्षेत्रादन्यसिन्क्षेत्रे गतस्य पुंसस्तदवधिज्ञानन्नानुवर्तते अपितूत्पत्यवच्छेदकदेश एव स्वविषयमवभासयति तदवधिज्ञानमनानुगमिकमित्यर्थः । एतदपि दृष्टान्तावष्टम्भेन भावयति । पृ. १०. पं. २३ प्रश्नादेशेति-परेण कृतस्य प्रश्नस्य ममामुकार्थसिद्धिर्भविष्यतिनवेत्यादिरूपस्य विषयीभूतार्थसिद्धयादिकमादिशति कथयति-यो-गणकादिःपुमान् स प्रश्नादेशपुरुषस्तस्य प्रश्नविषयार्थसिद्धयादिज्ञानवदित्यर्थः । दृष्टान्तदाष्टोन्तिकभावनामाह पृ. १०. पं. २३ यथा प्रश्नादेश इति-इदमपि-अननुगामिकावधिज्ञानमपि । अलं समर्थम् , अन्यत्स्पष्टम् । वर्धमानावधिज्ञानं निरूपयति पृ. १०. पं. २५ उत्पत्तिक्षेत्रादिति-यस्मिन्क्षेत्रे स्थितस्य पुंसोऽवधिज्ञानमुत्पन्नन्तदुत्पत्तिक्षेत्रं तत्र यावद्रूपिविषयकमवधिज्ञानन्तदुत्तरोत्तरक्षणे तत्क्षेत्रादन्यक्षेत्रे गतेऽपि तदाधारपुरुष क्रमेण तावद्विषयाधिकविषयमवगाहमानमवधिज्ञानमधिकाधिकविषयकत्वेन वर्धमानमिति वर्धमानावधिज्ञानन्तदित्यर्थः । एतदेव दृष्टान्तावष्टम्भेन द्रढयति । अधरोत्तरेति एकोऽरणिःशुष्कंकाष्टमधस्स्थितमन्यथारणिःशुष्कंकाष्ठं तदूपरिस्थितं कृत्वातयो परस्परनिघर्षणलक्षणनिर्मन्थनेनोत्पन्नो योऽनन्तरोपादीयमानेन शुष्केन काष्ठेनोपचीयमानो वृद्धिंगत एतादृशो यो निरन्तरधीयमानानामिन्धनानां राशिनां समूहेन जन्योऽमिस्तद्वदित्यर्थः । दृष्टा
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy