________________
जैनतर्कभाषा |
न्तदान्तिकयोर्भावनामाह-यथेति, इदमपि वर्धमानावधिज्ञानमपि, व्यक्तमन्यत्, atrarataज्ञानं निरूपयति
पृ. ११. पं. २ उत्पत्तिक्षेत्रापेक्षयेति- यस्मिन्क्षेत्रेऽवधिज्ञानं यावद्विषयकमुत्पन्नं तत्क्षेत्रापेक्षया क्रमेण देशान्तरे तावद्विषयेभ्योऽपचीयमानविषयकन्तदवधिज्ञानं भवतीति तद्धीयमाना विधिज्ञानमित्यर्थः । अत्र निदर्शनमनुकुल माह
१०८
पृ. ११. पं. ३ परिच्छिन्नेन्धनोपादानेति परिच्छिन्नस्याल्प स्येन्धनस्य काष्ठस्योपादानं सङग्रहो यत्र तादृशीं या सन्ततिः अल्पेन्धनसमूहस्तया समुद्भूतस्याग्नेः शिखा ज्वाला तद्वदित्यर्थः । भावनामाह
-
पृ. ११. पं. ३ यथेति-तत्रापरापरकाष्ठानामनाधीयमानत्वात्सञ्चितस्य काष्ठस्य प्रतिक्षणं दाहतोऽल्पीभवनादुत्तरोत्तरमनिज्वालाऽल्पाल्पतरा भवतीतिप्रत्यक्षसिद्धमेतत् ।
पृ. ११. पं. ४ इदमपि - हीयमानावधिज्ञानमपि । प्रतिपात्यवधिज्ञानं निरूपयति
पृ. ११. पं. ४ उत्पत्यनन्तरं निर्मूलनश्वरमिति निर्मूले ति सर्वथेत्यर्थः । पृ. ११. पं. ६ इदमपि - प्रतिपात्यवधिज्ञानमपि । अप्रतिपात्यवधिज्ञानं निरूपयति
पृ. ११. पं. ६ आकेवलप्राप्तेरिति यदवधिज्ञानमुत्पन्नं सत्केवलज्ञानावाप्तिपर्यन्तमवतिष्ठते केवलज्ञानोत्पत्तिक्षणे तदनन्तरक्षणे च न क्षायोपशमिकं ज्ञानचतुष्टयमित्यवधिज्ञानमपिनास्तीति तदवधिज्ञानमप्रतिपातीति ।
पृ. ११. पं. ६ आमरणाद्वा - इति - यदवधिज्ञानमुत्पन्नं सत्मरणाव्यवहितपूर्व समयं यावदवतिष्ठते तदवधिज्ञानमप्रतिपातीति, अत्र दृष्टान्तमाह
पृ. ११. पं. ७ वेदवदिति - पुरुषवेदादिवदित्यर्थः । दृष्टान्तानुगमनं करोति । पृ. ११. पं. ७ यथेति पुरुषवेदादीत्यादिपदात् स्त्रीवेदनपुंसक वेदयोरुपग्रहः, पुरुषवेदनीयं कर्म पुरुषवेद:, एवं स्त्रीवेदनपुंसकवेदौं । आपुरुषादिप