________________
जैनतर्कभाषा। तद्वयाप्यत्वे सति तद्वयापकत्वलक्षणसमनियतत्वस्य रूपिद्रव्यत्वनिरूपितस्य तत्राभावात् , यतस्तदभाववदवृत्तित्वं व्याप्यत्वं तच्च प्रकृते रूपिद्रव्यत्वाभाववदवृत्तित्वं तद्रूपिद्रव्यत्वाभाववत्यरूपिद्रव्यादौ विद्यमानायां केवलज्ञानविषयतायां नास्तीति । मनःपर्यायज्ञाननिरूपितविषयता रूपिद्रव्यत्वव्याप्याऽपि न रूपिद्रव्यत्वव्यापिका, व्यापकत्वं हि तत्समानाधिकरणात्यन्ताभावप्रतियोगितानच्छेदकधर्मवत्वं, तच्च रूपिद्रव्यत्वाधिकरणे मनोद्रव्यभिन्नघटादिलक्षणरूपिद्रव्ये विद्यमानस्य मनःपर्यायज्ञानविषयत्वाभावस्य प्रतियोगितावच्छेदकं यन्मनःपर्यायज्ञानविषयतात्वं तद्वत्त्वेन मनःपर्यायज्ञानविषयतायां नास्तीति । अवधिज्ञाने चोक्तलक्षणं सङ्गच्छते । रूपिद्रव्यत्वसमनियतविषयता परमावधिज्ञान विषयतातनिरूपकंज्ञानं परमावधिज्ञानं तद्धृतियां ज्ञानत्वव्याप्या जातिस्साऽवधिज्ञानत्वजातिस्तद्वदात्ममात्रापेक्षं ज्ञानमवधिज्ञानमिति । जातिघटितलक्षणोपादानात्परमावधिभिन्नावधिज्ञानमात्रस्य सकलरूपिद्रव्यविषयकत्वाभावेऽपि न तत्राव्याप्तिः। एतेन मतिज्ञानश्रुतज्ञानयोः इन्द्रियादिजन्यश्रुताननुसारिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वंमतिज्ञानस्य इन्द्रियादिजन्यश्रुतानुसारिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वं श्रुतज्ञानस्येत्येवंलक्षणमावेदितम्भवति, द्रव्यश्रुतस्य ज्ञानत्वव्याप्यजातिमत्त्वाभावेऽपि भावश्रुतकारणत्वमेव लक्षणं तदन्यतरवत्त्वञ्च श्रुतसामान्यस्येति । अवधिज्ञानं विभजते
पृ. १०. पं. ७ तच्चेति-अनुगाम्यननुगामिवर्धमानहीयमानप्रतिपात्यप्रतिपातिभेदादवधिज्ञानं षड्विधमित्यर्थः ।
पृ. १०. पं. १८ तत्र-अनुगाम्यादिषु षट् सु अवधिज्ञानेषु ।
पृ. १०. पं. १८ उत्पत्तिक्षेत्रेति-यस्मिन् क्षेत्र स्थितस्य पुंसोऽवधिज्ञानमुत्पन्नं तस्मात्क्षेत्रादन्यत्रक्षेत्रे गतस्यापि तदवधिज्ञानमनुवर्तत इति कृत्वा तदवधिज्ञानमानुगामिकमित्यर्थः । एतदेवं स्पष्टदृष्टान्तावष्टम्भेन भावयति
पृ. १०. पं. १९ भास्करप्रकाशवदिति-दृष्टान्तदाान्तिकयोस्साम्यमावेदयति
पृ. १०. पं. १९ यथेत्यादिना...प्राच्यां-पूर्वस्यां दिशि ।