________________
१. प्रमाणपरिच्छदः ।
१०५ तीर्थकलगवन्मुखाम्बुजनिर्गतत्रिपद्युपदेशनिष्पन्नं ध्रुवश्च यच्छ्रुतं गणधररचितम् आचारादिश्रुतं तदङ्गप्रविष्टमित्यर्थः । अनङ्गप्रविष्टमुदाहरति___ पृ. १०. पं. १२ अनङ्गेति-स्थविरकृतमावश्यकप्रकीर्णादिश्रुतमनङ्गप्रविष्टमङ्गबाह्यमित्यर्थः।
।इति श्रुतनिरूपणम् । वृत्ते च मनिश्रुतनिरूपणे सप्रभेदं तदुभयात्मकं सांव्यवहारिकप्रत्यक्षनिरूपणमपि निष्पन्नमेवेत्युपसंहरति । पृ. १०. पं. १३. तदेवमिति
॥ इति सांव्यवहारिकप्रत्यक्षनिरूपणम् ॥
॥ अथ पारमार्थिकप्रत्यक्षनिरूपणम् ॥ पारमार्थिकप्रत्यक्षसामान्यस्य लक्षणमाह
पृ. १०. पं. १५ स्वोत्पत्तेति-स्वावरणक्षय-खावरणक्षयोपशमविशेषातिरिक्तानपेक्षात्मव्यापारमात्रापेक्षोत्पत्तिकं पारमार्थिकप्रत्यक्षमित्यर्थः । पारमार्थिकप्रत्यक्षं विभजते, तत् त्रिविधमिति-अवधिज्ञानं, मनःपर्यवज्ञानं, केवलज्ञानमि त्येवं त्रिविधं पारमार्थिकप्रत्यक्षमित्यर्थः ।
॥अथ अवधिज्ञाननिरूपणम् ॥ अवधिज्ञानं निरूपयति
पृ. १०. पं. १६ सकलेति-अत्र अवधिज्ञानमिति लक्ष्यनिर्देशः, सकलरूपिद्रव्यविषयकजातीयमात्ममात्रापेक्षं ज्ञानमितिलक्षणनिर्देशः । ज्ञानमित्येतावन्मात्रोक्तौ मतिज्ञानादावतिव्याप्तिरिति आत्ममात्रापेक्षमिति तद्विशेषणम् , आत्ममात्रापेक्षं ज्ञानं मनःपर्यवज्ञानं केवलज्ञानश्चेति तयोरतिव्याप्तिवारणाय सकलरूपिद्रव्यविषयकजातीयमिति रूपिद्रव्यत्वसमनियतविषयतात्मकज्ञानवृत्तिज्ञानत्वव्याप्यजातिमदिति तदर्थः । तेन केवलज्ञानस्य सकलरूपिद्रव्यविषयकत्वेऽपि न तत्रातिव्याप्तिः, केवलज्ञानविषयताया रूपिद्रव्यातिरिक्तद्रव्यादावपि सत्त्वेन
१४