________________
जैनतर्कभाषा ।
,
पृ. १०. पं ८ आश्रित्य - अवलम्ब्य तदपेक्षयेति यावत् श्रुतमित्यनुवर्त्तते सम्यक् श्रुतं सततं वर्त्तते, न तु कदाचिन्न भवति, एवञ्च नानापुरुषानाश्रित्येदमनाद्यपर्यवसितम्भवतीत्यर्थः । क्षेत्रतोऽनादिश्रुतमुपदर्शयति
J»x
पृ. १०. पं. ८ क्षेत्रत इति - महाविदेहानित्यनन्तरमाश्रित्येत्यनुवर्त्तते, तथा च पञ्चमहाविदेहलक्षणान् विदेहानङ्गीकृत्य श्रुतज्ञानं सततं वर्तत इत्यनाद्यपर्यव - सितं तदित्यर्थः । कालतोऽनादिश्रुतं प्ररूपयति
पृ. १०. पं. ९ कालत इति - अनवसर्पिण्यनुत्सर्पिणीलक्षणं कालमाश्रित्य पञ्च महाविदेहेषु अनाद्यपर्यवसितं श्रुतज्ञानमित्यर्थः । भावतस्तदुद्भावयति
पृ. १०. पं. ९ भावतश्चेति-सामान्यतः क्षायोपशमिकं भावमाश्रित्य श्रुतज्ञानं सततं वर्त्तते, यतः सामान्येन महाविदेहेषु उत्सर्पिण्यवसर्पिण्यभावरूपनिज - कविशिष्टेषु द्वादशाङ्गश्रुतं कदापि न व्यवच्छिद्यते । तीर्थङ्कर गणधरादीनां तेषु सर्वदैव भावादित्यनाद्यपर्यवसितं तदित्यर्थः । सादिश्रुतप्ररूपणे तस्य सपर्यव सितत्वं भावितमनादिश्रुतप्ररूपणे तस्यापर्यवसितत्वं भावितमिति न तत्र वक्तव्यमवशिष्यते किञ्चिदित्याशयेन सपर्यवसिता पर्यवसितयोर्भावनामतिदिशति
पृ. १०. पं. १० एवमिति - उक्तप्रकारेणेत्यर्थः । गमिकश्रुतं प्ररूपयति
पू. १०. पं. ११ गमिकमिति-गमा भङ्गका गणितादिविशेषाश्च तद्बहुलं तत्सङ्कुलं गमिकम्, अथवा गमाः सदृशपाठाः, ते च कारणवशेन यत्र बहवो भवन्ति तद्गमिकमित्येवं विशेषावश्यकभाष्ये व्याख्यातं तत्र द्वितीय
"
पक्षमाश्रयन्नाह -
पृ. १०. पं. ११ सदृशपाठमिति - एतादृशं श्रुतं कुत्रेत्यपेक्षायामाह -
पृ. १०. पं. ११ प्रायो दृष्टिवादगतमिति - एतत्प्रतिपक्षमगमिकश्रुतं निरूपयति
पृ. १०. पं. ११ अगमिकमिति-अङ्गप्रविष्टं श्रुतं दर्शयति
पृ. १०. पं. १२ अङ्गेति - " उप्पेर वा विगमेइ वा धुवेइ वा " इति श्री