________________
१. प्रमाणपरिच्छेदः । चित एकान्ततया तदुक्तार्थानुष्ठानं भवभ्रमणहेतुरित्यादिरूपेण तदर्थाकलनं समीचीनमेव, न हि भारतादिप्रणेता वितथभाषी न भवति, तदुपदर्शितक्रियाकलापानुष्ठानं च भवभ्रमणहेतुर्न भवतीत्यतः मिथ्यात्वनिवन्धनकान्तघटनां परिचिन्त्य कथश्चिदर्थसंयोजनेन यथास्थानं तदर्थविनियोगात् सम्यक्श्रुतमेव भवतीत्यर्थः । विपर्ययादयथावस्थितबोधतो मिथ्यादृष्टिपरिगृहीतं सम्यक्श्रद्धानरहितपुरुषेणाधीतं सम्यकश्रुतमपि स्वरूपतः सम्यक्श्रुतरूपमप्याचाराद्यङ्गप्रविष्टम् आवश्यकावनङ्गप्रविष्टमनेकान्तार्थतां वास्तविकी परिभूर्यकान्तार्थतामवास्तविकी प्रापितं सन्मिथ्याश्रुतमेव भवतीत्यर्थः । सादि सम्यक्श्रुतं निरूपयति- .
पृ. १०. पं. ६ सादीति-कस्यचिदेकस्य देवदत्तादेराधारभूतद्रव्यस्य पूर्व सम्यक्श्रुतं नाभूदिदानीमेव जातमिति तदपेक्षया सादि सम्यक्श्रुतमित्यर्थः । द्रव्यतःसादिसम्यक्श्रुतमुपदर्य क्षेत्रतस्तद्दर्शयति
पृ. १०. पं. ६ क्षेत्रतश्चेति-भरतैरावतक्षेत्राण्याश्रित्य सादि सनिधनं सम्यक्श्रुतम्भवति, तत्र प्रथमतीर्थकृत्समये नद्भवतीति सादि, चरमतीर्थकृत्तीर्थान्तेऽवश्यन्तद्विच्छिद्यत इति सनिधनमिति । __पृ. १०. पं. ६ कालत इति काले त्वाश्रीयमाणे द्वे समे उत्सर्पिण्यवसपिण्यौ समाश्रित्य तत्रैव तेष्वेव भरतैरावतेष्वेतत्सादिसपर्यवसितं भवति, द्वयोरपि समयोः तृतीयारके प्रथमभावात्सादित्वं, उत्सर्पिण्यां चतुर्थस्यादौ, अवसर्पिग्यान्तु पञ्चमस्यान्ते अवश्यं विच्छेदात्सपर्यवसितत्वमिति । भावतो विचार्यमाणे प्रज्ञापकं गुरुं श्रुतप्रज्ञापनीयाँश्चार्थानासाद्य सादि सपर्यवसितमिदम्भवतीन्युपदर्शयति
पृ. १०. पं. ७ भावतश्चेति... तत्तज्ज्ञापकप्रयत्नादिकमिति-तत्तच्छ्रता र्थप्रज्ञापकगुरुप्रयत्नादिकमित्यर्थः । आदिपदात्तत्तछूतपज्ञापनीयार्थादेरुपग्रहः । सादिश्रुतप्रतिपक्षमनादिश्रुतं निरूपयति
पृ. १०. पं. ८ अनादि द्रव्यतो-द्रव्यविषये।
पृ. १०. पं. ८ नानापुरुषान-नारकतिर्यग्मनुष्यदेवगतानानासम्यग्दष्टिजीवान् ।