________________
१०२
जनतर्कभाषा। स्वादुच्छ्वासादे श्रुतत्वमिति । उच्छ्वासादिलक्षणपुरुषव्यापारस्यैव श्रुतस्वरूपं व्यापारान्तरस्य भावश्रुतहेतुत्वेन श्रुतरूपत्वेऽपि अनक्षररूपतया न प्रसिद्धिरि त्यत्र विनिगमकमाह
पृ. ९. पं. २८ अथवा श्रुतोपयुक्तस्य...अत्रैव-उच्छ्वासादावेव शास्त्रानभिज्ञप्रसिद्धरूढेरपरीक्षाक्षेत्रत्वेनानादरणीयत्वाच्छास्त्रज्ञेति लोकस्य विशेषणम् । ___ पृ. १०. पं. १ रूढिः-अनक्षरश्रुतशदस्य, शास्त्रज्ञा इत्थमेव व्यवहरन्तीति तथैवान्युपगन्तव्यमिति । सज्ञिश्रुतं निरूपयति
· पृ. १०. पं. १ समनस्कस्येति-स्मरणचिन्तादिदीर्घकालिकज्ञानवान् समनस्कपश्चेन्द्रियस्तस्य श्रुतं सज्ञिश्रुतमित्यर्थः । असज्ञिश्रुतं प्ररूपयति
पृ. १०. पं. २ तद्विपरीतमिति-अमनस्कसम्मूर्छनपञ्चेन्द्रियोऽसञी, तस्य श्रुतमसज्ञिश्रुतमित्यर्थः । सम्यक्श्रुतं निरूपयति
पृ. १०. पं. २ सम्यक्श्रुतमिति-तद्विपरीतं मिथ्याश्रुतं प्ररूपयति
पृ. १०. पं. २ लौकिकं तु-अङ्गानङ्गप्रविष्टभिन्नन्त्वित्यर्थः। स्वामिविशेषकृतम् सम्यक्श्रुतमिथ्याश्रुतयोविशेषम्भावयति
पृ. १०. पं. २ स्वामित्वचिन्तायां तु भजना-मिथ्याश्रुतस्यापि सम्यक्श्रुतत्वं सम्यक्श्रुतस्यापि मिथ्याश्रुतत्वमित्यर्थः । भजनामेवोपपाद्य दर्शयति
पृ. १०. पं. ३ सम्यग्दृष्टिपरिगृहीतमिति-यदि स्वामिचिन्तानाश्रीयते तदा अङ्गप्रविष्टं यदाचारादिश्रुतं यच्च अनङ्गप्रविष्टमावश्यकादिश्रुतं तदुभय. मपि स्वरूपतः सम्यक्श्रुतमेव, तत्प्रतिपाद्यार्थस्यानेकान्तात्मकत्वेनाबाधितत्वात् । तदुभयभिन्नं भारतादिव्यासादिमणीतं लौकिकं तद्बाधितैकान्तार्थकत्वेन स्वरूपतो मिथ्याश्रुतमेवेत्यभिहितम् । स्वामिचिन्ताश्रयणे पुनः सम्यग्दृष्टिपरिगृहीतं सम्यग्दृष्टिनाऽध्ययनाध्यापनादिविषयीकृतं मिथ्याश्रुतमपि भारतादिकं सम्यक्श्रुतमेव । तत्र हेतुमाह।
पृ. १०. पं. ४ वितथभाषित्वादिनेति-आदिपदाद्भवहेतुत्वादेरुपग्रहः । महाभारतादिरयं वितथभाषिणैकान्तवादिना यथावदस्त्वनमिझेन व्यासादिनोपर