________________
१. प्रमाणपरिच्छेदः ।
श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावेन संयोज्य घटो घट इत्याद्यन्तर्जल्पाकारग्राहिज्ञानस्य सांव्यवहारिकप्रत्यक्षरूपस्य श्रुतोपयोगस्यास्त्येव परोपदेशापेक्षा, तथापि मुग्धानां गवादीनां च शद्धश्रवणमात्रेणापि उपयोगस्य श्रुताख्यस्य तदीयचेष्टाविशेषतोऽनुमीयमानस्य भावेन लब्ध्यक्षरं परोपदेशं विनापि
१०१
सम्भवतीत्याह
पृ. ९. पं. २४ एतचेति - लब्ध्यक्षरश्चेत्यर्थः, नासम्भाव्यमिति निषेधद्वयात्सम्भाव्यमेवेत्यर्थः ः । परोपदेशं विनाऽपि लब्ध्यक्षरं सम्भाव्यमित्यनुभवतो व्यवस्थापयति ।
पृ. ९. पं. २५ अनाकलितोपदेशानामपीति-मुग्धानाम् अतीवमुग्धप्रकृतीनां पुलिन्दगोपाल बालादीनां गवादीनाश्च शबलबाहुल्यादीनां शद्धश्रव णेनरादिवर्णश्रवणे स्वस्वाम्युच्चरितखाह्वानसंसूचकशाबल्यादिशद्धश्रवणे च, लौकिकपरीक्षक भिन्नानां रथ्यापुरुषादीनाञ्च ।
पृ. ९. पं. २६ तदाभिमुख्यदर्शनात् - यद्देशादित आगतश्शद्भस्तद्देशाद्याभिमुख्यदर्शनात् वक्तृमुखावलोकनतत्पृच्छादेर्लाङ्गूलादिचालन कर्णोन्नमनादिचेष्टादेर्दर्शनात् एतच्च श्रुतज्ञानं परोपदेशाजनितमे केन्द्रियाणामप्यस्तीत्यतोऽपि परोपदेशं विनाऽपि सम्भाव्यमित्याह -
"
पृ. ९. पं. २६ एकेन्द्रियाणामपीति- अक्षरश्रुत प्रतिपक्षमनक्षरश्रुतं निरूपयति
पृ. ९. पं. २७ अनक्षरश्रुतमिति - उच्छ्वास। देरज्ञानरूपस्य कथं श्रुतत्वमित्यपेक्षायामाह ।
पृ. ९. पं. २७ तस्यापि - उच्छ्वासादितो ज्ञानजनने सत्येव भावश्रुतहेतुत्वं भवेदित्यत आह
पृ. ९. पं. २८ ततोऽपीति - उच्छ्वासादितोऽपीत्यर्थः, उच्छ्वसन्तं पुरुषं दृष्टच्छ्वासादितः सशोकोऽयमिति ज्ञानमाविर्भवति, श्रुते चैवं निर्णीतमस्ति, यदुतोच्छ्वासादिश्शोकप्रभव इति श्रुतानुसारितया तज्ज्ञानं श्रुतमिति तजनक
: