________________
जैनतर्कभाषा ।
॥ अथ श्रुतज्ञाननिरूपणम् ॥ तत्र श्रुतानुसारिज्ञानत्वं श्रुतज्ञानत्वमित्येवं श्रुतज्ञानलक्षणस्य पूर्वमभिहित. त्वात् तद्विभागमेवाह
पृ. ९. पं. १९ श्रुतभेदा उच्यन्ते......सप्रतिपक्षैरिति-प्रतिपक्षसहितैरित्यर्थः । प्रतिपक्षाश्चाक्षरादीनां सप्तानां अनक्षरा-ऽसंड्य-सम्यग-नाद्यपर्यवसिताऽ-गमिकाऽनङ्गप्रविष्ट भेदास्सप्तेति मिलित्वा चतुर्दशविधं श्रुतमित्यर्थः।
पृ. ९. पं. २१ तत्र-उक्तचतुर्दशसु श्रुतेषु मध्ये । पृ. ९. पं. २१ अक्षरं-अक्षरश्रुतम् ।
पृ. ९. पं. २२ बहुविधलिपिभेदमिति-भाष्यमाणाकाराद्यक्षरावबोधनाय विविधनिर्मितिविषयीकृतरेखादिलक्षणलिपीनां प्रतिनियतस्वम्व सङ्केतिताक्षराणां स्वरूपतो यथाऽन्योन्यं भेद एकदेशीयपुरुषरचनावैशिष्टयकृतस्तथा देशभेदेन तत्तद्देशीयपुरुषकृतसङ्केतभेदेनैकस्याप्यकारादे रेखादिसन्निवेशविशेषाविर्भावितस्वरूपतो व्यञ्जिकानां लिपीनां भेद इति बहुविधत्वं बोध्यम् , लिप्याऽक्षरं सज्ञायत इति साक्षरत्वम् ।
पृ. ९. पं. २२ भाष्यमाणं-वक्त्रोचार्यमाणम् , ननु संज्ञाक्षरं व्यञ्जनाक्षरश्चाज्ञानरूपत्वात्कथं श्रुतं, श्रुतानुसारिज्ञानस्यैव श्रुतत्वेन लक्षितत्वादित्यत आह।
पृ. ९. पं. २२ एते चेति-संज्ञाक्षरव्यञ्जनाक्षरे वित्यर्थः ।
पृ. ९. पं. २२ उपचारादिति-परम्परया साक्षाद्वा तजन्यस्य शाब्दबो. धात्मकज्ञानस्य भावश्रुतत्वेन तत्कारणत्वादनयोरपि श्रुतत्वोपचारत एते श्रुते इत्यर्थः । अक्षरस्य तृतीयभेदं लब्ध्यक्षरं निरूपयति ।
पृ. ९. पं. २३ लब्ध्यक्षरन्त्विति-अस्य तु श्रुतोपयोगस्य भावश्रुतत्वमेव।
पृ. ९. पं. २४ तदावरणक्षयोपशमो वा इति-अथवा श्रुतोपयोगावरणक्षयोपशमो लब्ध्यक्षरमित्यर्थः। अस्याप्यज्ञानरूपस्य श्रुतोपयोगलक्षणभावश्रुतकारणत्वादुपचाराच्छूतत्वम् यद्यपीन्द्रियमनोनिमित्तस्य सङ्केतविषयपरोपदेशं