________________
१. प्रमाणपरिच्छेदः । पृ. ९. पं. १० अन्यस्त्विति-लिङ्गं विनैव वस्तुपरिच्छेदकावग्रहादित्वमनिश्चितावग्रहादित्वं, लिङ्गावलम्बनेन वस्तुपरिच्छेदकावग्रहादित्वं निश्चितावग्रहादित्वमिति क्रमेण निरूपयति ।
पृ. ९. पं. ११ परत्वनिश्चितमिति-विरुद्धधर्मानालिङ्गितत्वेन वस्त्ववगाह्यवग्रहादित्वं निश्चितावग्रहादित्वं, विरुद्धधर्मालिङ्गितत्वेन वस्त्ववगाह्यवग्रहादित्वमनिश्चितावग्रहादित्वमिति क्रमेणोपदर्शयति ।
पृ. ९. पं. १३ कश्चित्त्वित्यादिना-यस्य पुंसो यदा यदा यद्वस्तुनो बोधस्तदा तदा नियतेन बह्वादिरूपेणैव बोधो भवति, स ध्रुवमवगृह्णाति; यस्य प्रमातुः कदाचिद्यस्य वस्तुनो बह्वादिरूपेण बोधस्तस्यैव प्रमातुस्तस्यैव वस्तुनः कदाचिदबह्वादिरूपेणापि बोधः, सोऽध्रवमवगृह्णातीत्येवंव्यवस्थया ध्रुवावग्रहादिकमध्रुवावग्रहादिकन लक्षितं भवतीत्याह-अन्यो ध्रुवमिति । यस्य प्रमातुर्यस्य वस्तुनः कदाचिद्बह्वादिरूपेण ज्ञानं कदाचित्तस्यैव वस्तुनस्तस्यैव प्रमातुरबह्वादिरूपेणापि ज्ञानन्तदा तस्याध्रुवावग्रहादित्वमित्याह
पृ. ९. पं. १६ कदाचिद्ब्रह्मादिरूपेणेति-इदन्त्ववधेयं-सामान्यमात्रग्राहिणो नैश्चयिकार्थावग्रहस्य वस्त्वादिरूपेणार्थावगमकत्वाभावादबवग्रहत्वादिद्वादशविधत्वाभावेऽपि व्यावहारिकार्थावग्रहस्य वस्तुस्थित्याऽपायरूपस्योक्तद्वादशविधत्वतस्सामान्यतोऽथावग्रहस्य भवतु द्वादशविधत्वं, परं व्यञ्जनावग्रहस्याज्ञानरूपतापक्षे औपचारिकमेव ज्ञानत्वमिति कथं बह्वादिभेदस्तस्य ज्ञानरूपत्वपक्षेऽपि च नार्थविषयकज्ञानत्वमव्यक्ततमार्थज्ञानताभ्युपगमोऽपि तत्रार्थज्ञानरूपार्थावग्रहोपादानत्वनिवन्धनोपचारत एव, तत्र मनोव्यापाराभावेन मनोव्यापारमन्तरेण जायमाने ज्ञाने परमार्थतोऽथविषयकत्वस्यानुपचरितस्यासम्भवात् , तथा चार्थविषयकत्वाभावेऽर्थस्य बहुत्वादिनिबन्धनस्य बह्वादिरूपेणावभासकत्वस्याप्यभावादुक्तद्वादशविधत्वमपि न सम्भवतीति मतिज्ञानस्य षट्त्रिंशदधिकत्रिशतविधत्वमप्यसम्भवदुक्तिकं यद्यपि, तथाप्युपचारतो यथाज्ञानत्वादिकं व्यञ्जनावग्रहस्य तथा तत्कार्यार्थावग्रहादिगतववाद्यवभासकत्वमप्युपचारत इति तदाश्रयणेनोक्तमेदोपपत्तिरिति । मतिज्ञाननिरूपणमुपसंहरति । उक्ता मतिमेदा इति ।
॥ इति मतियाननिरूपणम् ॥