________________
जैनतर्कभाषा
अनिश्चितावग्रह - निश्चितावग्रह - भुवावग्रहै, एवं बीहादिभिः तथा बहुपायादिभिः तथा बहुधारणाभिः ।
१०
पृ. ९. पं. १ संप्रतिपक्षैरिनि - अबह्ववग्रहाद्यबह्वीहाद्यवह्नपायाद्यबहुधारणादिसहितैः ः ।
पृ. ९. पं. २ एतेषाम् - अनन्तरनिर्दिष्टानामष्टाविंशतिसङ्ख्यकानांमवग्रहादीनाम् । अन्यत्स्पष्टम् । अवग्रहादीनां बह्वादिभेदाः किंनिबन्धना इत्यपेक्षायामाह -
पृ. ९. पं. २ बह्रादयश्चेति- बह्नवग्रहादिमेदानां विषयापेक्षत्वमेव भावयति, तथा हीत्यादिना ।
पृ. ९. पं. ३ कश्चिदिति - प्रमातृविशेष इत्यर्थः । वहु जानातीति सामा न्येनोक्तमेव विशिष्यार्थप्रकटनेन स्पष्टयति
पृ. ९. पं. ४ एतावन्तोऽत्रेति-अत्र आकर्णिते नानाशद्वसमूहे, बहुग्रहम्रुपदर्श्य तत्प्रतिपक्षमबहुग्रहणमुपर्दशयति - अन्यस्त्विति, बह्वर्थग्रहणकर्त्तृभिन्नः प्रमातेत्यर्थः ।
पृ ९. पं. ६ तत्समानदेशोऽपि बहुग्रहीतृप्रमातृदेश वर्ण्यपि ।
पृ. ९. पं. ६ अबहुमित्यनन्तरं - जानातीत्यनुवर्त्तते, एवमग्रेऽपि, बह्रवग्रहादिनो बहुविधावग्रहादेविंशेष्यांशावगाहित्वसाम्येऽपि प्रकारांशावगाहनेऽस्ति वैलक्षण्यं, बहुवग्रहादिमतः पुंसः बहुविधावग्रहादिमत एकैकस्मिन्नपि विशेष्ये बहुधर्मप्रकारावबोधत्वादिति बहुविधस्वरूपावेदनेन प्रकटयति
पृ. ९. पं. ७ अपरस्त्विति -बहुविधञ्जानातीत्येव हेतूपदर्शनेन द्रढयति । पृ. ९. पं. ७ एकैकस्यापीति - एतद्विपरीतम बहुविधन्निरूपयति ।
पृ. ९. पं. ८ परस्त्विति - अबहुविधत्वे पूर्वस्मान्नधर्माकलनमर्थात्प्राप्तमपि हेतुं स्पष्टप्रतिपत्तये दर्शयति ।
पृ. ९. पं. ८ स्निग्धत्वादीति - शीघ्र परिच्छेदकावग्रहादित्वं क्षिप्रावग्रहादित्वं चिरपरिच्छेदकावग्रहादित्वमक्षिप्रावग्रहादित्वमिति क्रमेण दर्शयति ।