________________
१. प्रमाणपरिच्छेदः। वलोकिने अवग्रहेहाद्वयमतिक्रम्य प्रथमत एवापायप्रवृत्तिदृश्यते क्वचित्पुनः पूर्वमुपलब्धे सुनिश्चिते दृढवासनाविषयीकृतेऽर्थेऽवग्रहहापायानतिक्रम्यापि स्मृतिलक्षणा धारणा जायते, इति रिक्तमिदमुच्यते यदवग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन चोत्पद्यन्त इतीत्यत आह
पृ. ८. पं. २४ क्वचिदभ्यस्त इति...चोपलक्षणे-दर्शनेऽपि ।
पृ. ८. पं. २५ उत्पलेति-यथा उत्पलपत्रशतव्यतिभेदने क्रमेणैव पत्राणां व्यतिभेदनं सौक्ष्म्याच क्रमस्यानुपलक्षणं तथैव यत्राभ्यस्ते विषयेऽपायमात्रस्य दर्शनं तत्राप्यपायात्पूर्वमस्त्येवावग्रहेहयोर्भाव इति क्रमेणैवावग्रहेहापायधारणास्तत्रापि भवन्ति, सौक्ष्म्याच क्रमानुपलक्षणादपाय एवात्रेत्यभिमानः, एवं दृढवासनाविषयेऽपि अवग्रहेहापायपूर्विकैव स्मृतिः, सौक्ष्म्यात्क्रमानुपलक्षणात्स्मृतिरेवात्र केवलेत्यभिमान इत्यर्थः । मतितानस्य सामान्यतोऽवग्रहादिभेदेन चतुर्विधस्येन्द्रियानिन्द्रियलक्षणकरणभेदप्रयुक्तावान्तरभेदसङ्कलनयाऽष्टाविंशतिभेदत्वमुपसंहरति
पृ. ८. पं. २६ तदेवमिति–अर्थावग्रहादयः-अर्थावग्रहेहापायधारणाश्चत्वारः।
पृ. ८. पं. २७ मनइन्द्रियैः-मन एकमिन्द्रियाणि चक्षुरादीनि पञ्च तैः ।
पृ. ८. पं. २७ षोढा भिद्यमानाः-प्रत्येकं पद्प्रकारैभिंद्यमानाः, चतुणां प्रत्येकं षट्प्रकारैभिंद्यमानत्वे चतुर्विंशतिर्भेदाः सम्पद्यन्ते, तत्र ।
पृ. ८. पं. २७ व्यञ्जनावग्रहचतुर्भेदैः-मनोनयनयोर्व्यञ्जनावग्रहाभाबाच्छ्रोत्रादीन्द्रियचतुष्टयप्रभवैश्चतुभिर्व्यञ्जनावग्रहैः सह सङ्कलने ।
पृ ८. पं. २८ अष्टाविंशति-अष्टाविंशतिसङ्ख्यकाः ।
पृ. ८. पं. २८ मतिभेदा-मतिविशेषाः । अष्टाविंशतिसङ्ख्यकानामेषां बह्वादिविषयभेदनिबन्धनबहु-बहुविधादिद्वादशभेदानां प्रत्येकं सम्भवात् सर्वेषां सङ्कलने षट्त्रिंशदधिकत्रिशतभेदा ज्ञानस्येत्याह
पृ. ८. पं २८ अथवा बहिति-बह्ववग्रह-बहुविधावग्रह-क्षिप्रावग्रह