SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९६ जैनतर्कभाषा । अधर्मयोगिवासनाजनकत्वेनाप्यविच्युतेरन्यान्यवस्तुग्राहित्वमवसीयते । स्मृतिस्तु प्रागनुभूतवस्त्वैक्यग्राहिणी सुतरामगृहीतविषया, इत्य गृहीतग्राहित्वात्तयोः प्रामाण्यमनाबाधमेव । वासना तु विकल्परूपा नाभ्युपगम्यत एव, किन्तु स्मृतिज्ञानावरणक्षयोपशमरूपा तज्ज्ञानजननशक्तिरूपा वा सा, कारणे कार्योपचारमा - श्रित्य स्मृतिज्ञानज निकायां तस्यां ज्ञानत्वमुपचर्यत इत्यविच्युत्यादित्रयरूपाया धारणायास्सम्भवान्मतिज्ञानस्य चतुर्विधत्वं सुयुक्तमेवेति समाधत्ते । पृ. ८. पं. १७ न स्पष्टस्पष्टतरस्पष्टतमेत्यादि- व्यक्तार्थम् । ॥ इति धारणानिरूपणम् ॥ || अवग्रहादीनां क्रमादिपरीक्षणम् ॥ अवग्रहादीनां चतुर्णामुत्तरोत्तरम्प्रति पूर्वपूर्वस्य कारणत्वादवग्रहानन्तर मीहा, तदनन्तरमपायस्तदनन्तरं धारणेति क्रम एव, ननु व्युत्क्रमेणैतेषामुत्पत्तिः, यत्रावग्रहस्तत्रेहादीनामप्यवश्यमेव न तु कस्यचिद्भावः कस्यचिदभाव इति दर्शयति । पृ. ८. पं. २३ एते चावग्रहादयो नोत्क्रमेति - नञः उत्पद्यन्त इत्यनेनान्वयः । अत्र पश्चानुपूर्वीभवनमुत्क्रमः, तद्यथा पूर्वं धारणा ततोऽपायस्तत ईहा ततोsवग्रह इति, अनानुपूर्वीभवनं व्यतिक्रमः, यथा कदाचिदवग्रहमतिक्रम्येहा, तामुल्लङ्घयाप्यपायः, तमतिक्रम्य धारणेति आभ्यामुत्क्रमव्यतिक्रमाभ्यामवग्रहादयो नोत्पद्यन्ते इत्यर्थः । च पुनः । पृ. ८. पं. २३ न्यूनत्वेन - एषाम्मध्ये कदाचिदवग्रहस्यैव भवनं, कदाचिदवग्रहेहयोरेव भवनं, कदाचिदवग्रहेहापायानामेव भवनमित्येवं न्यूनत्वेन नोत्पद्यन्ते, यतश्चतुर्णामप्येषां क्रमेण भवने सत्येव वस्तुस्वभावावबोधो नान्यथेति चत्वारोप्येते ऽभ्युपगन्तव्या नैकादिमात्रमित्यर्थः । अयमभिप्रायः - अवग्रहागृहीते वस्तुनि तद्विचाररूपा नेहा सम्भवति, विचारस्य विचार्यमन्तरेणासम्भवात्, निश्चयलक्षणस्य चापायस्य विचारपूर्वकत्वेन विचाररूपेहामन्तरेण सम्भवाभावात्, निश्चितवस्त्ववधारणरूपाया धारणाया निश्चयपूर्विकाया निश्चयात्मकापायमन्तरेणासम्भवात् वस्त्ववगमस्यैवक्रमेणैव सम्भवित्वेनेत्थमेवैषां क्रमो युक्तो, नोत्क्रमव्यतिक्रमौ नापि न्यूनत्वमिति । ननु भूयो दृष्टे विकल्पिते भाषिते च वस्तुनि पुनश्चा
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy