________________
१. प्रमाणपरिच्छेदः। पृ. ७. पं. २६ क्वचिच्च-यत्र च विषये प्रमातुःअसद्भूतार्थविशेषव्यतिरेकालोचनं सद्भूतार्थविशेषपर्यालोचनग्न तत्र ।
पृ. ७. पं. २६ उभाभ्यामपि-तदन्यव्यतिरेकपरामर्शान्वयधर्मसमनुगमाभ्यामपि, भवतोऽपायस्येत्युक्तार्थक एव सम्बध्यते, निश्चयैकरूपेण निश्चयत्वलक्षणापायसामान्यधर्मेण । . पृ. ७. पं. २७ भेदाभावात्-विशेपाभावादिति ।
पृ. ७. पं. २७ अन्यथा-असद्भूतार्थविशेषव्यतिरेकावधारणस्यापायत्वं सद्भूतार्थविशेषावधारणस्य धारणात्वमित्येवमपायधारणयोर्भेदेन स्वरूपनिर्वचने।
पृ. ७. पं. २८ स्मृतेराधिक्येनेति-अविच्युतेस्स्वसमानकालभाविनि अपाये व्यतिरेकावधारणलक्षणे व्यतिरेकावधारणलक्षणाया अन्तर्भूतत्वादन्वयावधारणलक्षणायास्तस्या अन्वयावधारणलक्षणायां स्वसमानकालीनायामन्तर्भूतत्वाद्वासनायास्तु स्मृतावेवान्तर्भावयितुं शक्यत्वात् स्मृतेस्तु न कुत्राप्यन्तर्भाव इत्येवमाधिक्येनेत्यर्थः।
पृ. ७. पं. २८ मतेःपश्चभेदत्वप्रसङ्गादिति-अवग्रहेहापायधारणाश्चत्वारो भेदा मतेस्त्वयाऽभ्युपगता एव, स्मृतिस्तु पञ्चमो भेद इत्येवं मतिज्ञानस्य पञ्चविधत्वप्रसङ्गादित्यर्थः । ननूक्त दिशा सद्भूतार्थविशेषावधारणस्यास्पदभिमतंधारणात्वं नाङ्गीक्रियते तदा भवदभिमतं मतेश्चातुर्विध्यं न स्यान्मत्युपयोगोपरमे कालान्तरे जायमानायाः स्मृतेमत्यंशत्वाभावाद्वासनाया अपि मत्युपयोगोपरमे जायमानायाः स्मृतावेवान्तर्भावात् उपयोगसातत्यलक्षणाऽविच्युतिस्त्वपाय एवेति त्रैविध्यमेव मतिज्ञानस्य भवेत् , कालान्तरे जायमानायाः स्मृतेर्मतित्वाभ्युपगमेऽपि वाऽसन्मते अन्वयावधारणरूपायां धारणायामन्तर्भावानासन्मते पञ्चवि. धत्वं मतेरापतत्यपीति शङ्कते।
पृ. ७. पं. २८ अथ नास्त्येव भवदभिमता-स एव दृढतमावस्थापनो धारणेति भवल्लक्षणलक्षिता, भेदचतुष्टयव्याघातमेव भावयति ।
पृ. ७. पं. २९ तथाहीति-उपयोगोपरमे-मत्युपयोगोपरमे, ननूपयोगा