________________
जैनतर्कभाषा। नुपरम एवाविच्युतिलक्षणा धारणेष्यते सा मतिस्स्यादित्यत आह ।
पृ. ७. पं. २९ उपयोगेति-तथा च तस्या अपायरूपत्वन्न, तामादाय मतेवातुर्विध्यमिति भावः । कालान्तरे जायमानाया वासनाया स्मृतेश्च मत्युपयोगत्वमेव न सम्भवतीति न वासनां स्मृतिं वोपादाय मतेश्चातुर्विध्यसङ्घटना युक्तिमतीत्याह ।
पृ. ८. पं. २ या च "तदेव" इतिलक्षणा स्मृतिः सा-वासना स्मृतिश्च, कथं न तयोर्मत्यंशधारणारूपत्वमित्यपेक्षायामाह । ___ पृ. ८. पं. ४ मत्युपयोगस्येति-मत्युपयोगोपरमे जायमानस्य न मतित्वमित्यभिसन्धिः । एवमपि मतित्वाभ्युपगमेऽस्मन्मतेऽपि न स्मृतेराधिक्यनिबन्धनस्य मतिज्ञाने पञ्चविधत्वस्य प्रसङ्गः, अन्वयावधारणरूपायां धारणायां तस्या अन्तर्भावसम्भवादित्याह । ___पृ. ८. पं. ५ कालान्तर इति-भवतान्तु अन्वयावधारणस्याप्यपायत्वेन कालान्तरे जायमानज्ञाने मतिज्ञानत्वाभ्युपगमे स्मृतेरप्यपायत्वमेव भवितुमर्हतीत्येवमपि त्रैविध्यमेव मतेः प्रसज्यत इति शङ्कितुर्गुढाभिसन्धिः। कालान्तरे जायमानायाः स्मृतेर्वस्तुनिश्चयमात्रफलकादपायात्पूर्वापरदर्शनानुसन्धानफलकत्वेन विभिन्नकालीनत्वेन चाधिक्यं निर्विवादमेव, सा च स्मृतिर्यस्मात्पूर्वोपलब्धवस्त्वाहितसंस्कारस्वरूपाद्वासनाविशेषात्प्रादुर्भवति, स वासनाविशेषोऽपि पूर्वापायाद्विभिन्नकालीनतया भिन्न एवेति त्रिष्वप्न्येषु धारणात्वमिति चतुर्धा मतिविभजनं नासङ्गतमिति समाधत्ते ।
पृ. ८. पं. ६ नेति-अविच्युतेरित्यस्यापायाभ्यधिकत्वादित्यनेन सम्बन्धः ।
पृ. ८. पं. ७ पूर्वापरदर्शनानुसन्धानस्येति-तत्ता पूर्वदर्शनविषयता, इदन्ता वर्त्तमानदर्शनविषयता, ताभ्यां पूर्वापरदर्शनविषयाभेदमवगाहमानायास्तदेवेदमिति स्मृतेः पूर्वापरदर्शनानुसन्धानत्वमित्येतावताऽपायात्स्मृतेः फलभेद उपदर्शितः। पूर्वापायस्य कालान्तरे संस्कारात्मनाऽनुस्यूतस्य स्मृतिरूपेण परिणमनात्परिणामिपरिणामभावादनयोर्भेद इत्यावेदनायाह ।