________________
जैनतर्कभाषा। मपायः, तत्रोक्तलक्षणसङ्गमना यथा-सन् स्थाण्यादिरर्थस्तदन्यः पुरुषादिरर्थोऽस.
द्भूतोऽर्थः तस्य ये विशेषाः शिरस्कण्डूयनचलनस्यन्दनादयस्तेषां पुरोवत्तिनिसद्भूते स्थाण्वादिरूपेऽर्थे यो व्यतिरेकोऽभावः तस्यावधारणं निर्णयः-नायं पुरुष इति ज्ञानं, तदेवासद्भूतार्थविशेषापनोदनक्षमत्वेन अपाय इत्यर्थः । नत्रैव धरणं च धारणेति व्युत्पत्यर्थावलम्बनेन यद्धारणास्वरूपं पर्यवसितं तदुपदर्शयति । . पृ. ७. पं. २४ सद्भतेति-अनेन लक्षणेन स्थाणुरेवायमिति ज्ञानं धारणेति ज्ञायते, तत्रोक्तलक्षणसमन्वयो यथा-सद्भूतोऽर्थः पुरोवर्तिनिर्देशे विद्यमानः स्थाण्वादिस्तस्य विशेषरस्थाणुत्वादिरसाधारणो धर्मस्तस्यावधारणं स्थाणुरेवायमिति ज्ञानं धारणेत्यर्थः । ... पृ. ७. पं. २५ तन्न-उक्तमतं न समीचीनम् , तत्र हेतुमाह ।
पृ. ७. पं. २५ कचिदित्यादि-यत्रासद्भूतार्थविशेषापनयनं यत्र च सद्भतार्थानुगमनं यत्र च तदुभयं-सर्वत्र तद्द्वारा जायमानोऽपायः स्थाणुरेवायमिति निश्चयस्वरूप एवेति तस्यापायत्वमेव । ननु अन्यविशेषव्यतिरेकावधारणस्यापायत्वं सद्भूतान्वयधर्मावधारणस्य धारणात्वमिति तयोर्मेंदाकलनं युक्तं, तथा सत्युक्तमकाराभ्यां व्यतिरिक्ता स्मृतिरपि ज्ञानान्तरं स्यादिति मतेः पञ्चप्रकारत्वापत्त्या चतुर्विधत्वं व्याहन्येतेति सम्मुखीनोऽर्थः । अक्षरार्थस्तु ।
पृ. ७. पं. २५ क्वचित्-यत्र विषये प्रमातुः नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्ते इति असद्भूतार्थविशेषव्यतिरेकालोचनं तत्र । - पृ. ७. पं २५ तदन्यव्यतिरेकपरामर्शात्-पुरोवत्तिस्थाणुगतधर्मान्याभावावधारणात् , भवतो जायमानस्य । . पृ. ७. पं. २७ अपायस्य-स्थाणुरेवायमिति ज्ञानस्य ।
पृ. ७. पं. २६ क्वचित्-यत्र विषये प्रमातुः वल्युत्सर्पणवयोनिलयनादिकमत्र दृश्यते इति सद्भूतार्थविशेषपालोचनं तत्र विषये ।
पृ. ७. पं. २६ अन्वयधर्मसमनुगमात्-पुरोवत्तिस्थाण्वनुगतधर्मस्य निश्चयनात् भवतोऽपायस्येत्यस्योक्तार्थस्य सम्बन्धः। :