________________
स्याहादमञ्जरौ। स्ववचनविरोध इति समासार्थ : व्यासार्थ स्त्वयं ते वादिन इदं प्रणिगदन्ति तात्विकमात्म ब्रह्मैवास्ति
"सर्वं खल्विदं ब्रह्म नेह नानास्ति किं चन । आरामं तस्य पश्यन्ति न तत्पश्यति कश्चन" ॥
इति समयात् अयं तु प्रपञ्चो मिथ्यारूपः प्रतीयमानत्वाद्यदेवं तदेवं यथा शुक्तिशकले कलधौतं तथा चायं तस्मात्तथा तदेतद्वात्तं तथा हि मिथ्यारूपत्वं तैः कोटग विवक्षितं किमत्यन्तासत्वमुतान्यस्यान्याकारतया प्रतीतत्वम् आहोस्विदनिर्वाच्यत्वं प्रथमपक्षे ऽसत्ख्यातिप्रसङ्गः द्वितीये विपरीतख्यातिखीकृतिः टतौये तु किमिदम् अनिर्वाच्यत्वं निःस्वभावत्वं चेन्निसः प्रतिषेधार्थत्वे खभावशब्दस्यापि भावाभावयोरन्यतरार्थत्वे ऽसत्ख्यातिसत्ख्यास्यभ्युपगमप्रसङ्गः भावप्रतिषधे ऽसत्ख्यातिरभावप्रतिषेधे मख्यातिरिति प्रतीत्यगोचरत्वं नि:स्वभावत्वमिति चेदवविरोध: स पपञ्चो हि न पतौयते चेत्कथं धमितयोपात्तः कथं च प्रतीयमानत्वं हेतुतयोपात्तं तथोपादाने वा कथं न प्रतीयते यथा प्रतीयते न तथेति चेत्तर्हि विपरीतख्यातिरियमभ्युपगता स्यात् किं च यमनिर्वाच्यता पपञ्चस्य प्रत्यक्षबाधिता घटोयमित्याद्याकारं हि प्रत्यक्ष प्रपञ्चस्य सत्यतामेव व्यवस्यति घटादिप्रतिनियतपदार्थ परिच्छेदात्मनस्तस्योत्पादादितरेतरविविक्तवस्तूनामेव च प्रपञ्चशब्दवा