________________
स्याद्वादमञ्जरी ।
सम्भवत्यर्थः मायाया अवस्तुत्वेनाभ्युपगमादव स्तुनश्च तुरङ्गशृङ्गस्येव सर्वोपाख्याविरहितस्य साक्षात्क्रियमागणेशविवर्तजनने ऽसमर्थत्वात् किलेन्द्रजालादौ - तृणादौ वा मायोपदर्शितार्थानामर्थक्रियायामसामर्घ्यं हृष्टम् श्रव तु तदुपलम्भात्कथं मायाव्यपदेशः श्र होयताम् अथ मायापि भविष्यति अर्थक्रिया समर्थ - पदार्थोपदर्शनक्षमा च भविष्यति इति चेतर्हि खवचनविरोधः न हि भवति माता च बन्ध्या चेति एनमेवार्थ हृदि निधायोत्तराईमाह मायैवच दित्यादि अवारोप्यर्थो ऽपिश्च समुच्चयार्थो ऽग्रेतनचकारश्च तथा उभयोश्च समुच्चयार्थ योर्योगपदादद्योतक प्रतीतमेव यथा रघुवंशे ते च " प्रापुरुदन्वन्तं बुबुधे चादिपुरुष" इति तदयं वाक्यार्थो माया च भविष्यति अर्थसहा च भविष्यति अर्थसहा अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा चच्छव्दो ऽच योज्यते इति चेत् एवं परमाशङ्का तस्य खवचनविरोधमुद्भावयति तत्किं भवत्परेषां माता च वन्ध्या च किमिति सम्भावने सम्भाव्यते एतत् भवतो ये परे प्रतिपक्षास्तेषां भवत्परेषां भवातिरिक्तानां भवदाज्ञापृथग्भूतत्वेन तेषां वादिनां यन्माता च भविष्यति वन्ध्या च भविष्यतीत्युपहास: माता हि प्रसवधर्मिणो वनितोच्यते दन्ध्या च तद्दिपरीता ततश्च वन्त्र्या चेत्कथ माता माता चेत्कथं वन्ध्या तदेवं मायाया अवास्तव्या श्रप्यर्थ सहत्वे ऽङ्गीक्रियमाणे प्रस्तुतवाक्यवत् स्पष्ट एव
६४