________________
स्यादादमञ्जरौ ।
६३
प्रबन्धस्यान्त्यज्ञानं ज्ञानं च विवादाध्यासितं रूपादिज्ञानमिति न ज्ञानसा ज्ञानान्तरज्ञेयता युक्ति सहत इति काव्यार्थः ॥ १२ ॥
अथ ये ब्रह्माद्वैतवादिनो ऽविद्याऽपरपर्यायमामावशात्प्रतिभासमानत्वेन विश्ववयवर्त्तिवस्तु पञ्चमपारमार्थिकं समर्थयन्ते तन्मतमुपहसन्नाह |
|
माया सती चेद्दयतत्वसिद्धिरथासतो हन्त कुतः प्रपञ्चः । मायैव चेदर्थसहा च तत्किं माताच बन्ध्या चभवत्परेषाम्॥१३॥
तैर्वादिभिस्तात्विकात्मब्रह्मव्यतिरिक्ता या माया विद्या पञ्चतुः परिकल्पिता सा सद्रूपा सद्रूपा वा यो गतिः सतो सद्रूपा चेत्तदा इयतत्वसि - fasarat यस्य तद्दयं तथाविधं यत्तत्वं परमार्थस्तसा सिद्धिरयमर्थः एकं तावत्त्वदभिमतं तात्विकमात्मब्रह्म द्वितीया च माया तत्वरूपा सद्रूपतयाङ्गीक्रियमाणत्वात् तथा चाद्वैतवादसा मूले निहित: कुठारः अथेति पक्षान्तरद्योतने यदि - सती गगनाम्भोजवदवस्तुरूपा सा माया ततो हन्तेत्युपदर्शने आश्चर्ये वा कुतः प्रपञ्चः अयं विभुवनोदरविवरविवर्त्तिपदार्थसार्थरूपप्रपञ्चः कुतो न कुतोऽपि