________________
स्थाबादमञ्जरौ। मेव दिव्यदृशामौचितीमञ्चति नार्वाग्दृशां भवादृशामित्याशङ्कां विशेषगहारेण निराकरोति यतोऽयं जनः परीक्षाबिधिदुर्विदग्ध: अधिकृतगुणविशेषपरीक्षणविधौ दुर्विदग्धः पण्डितंमन्य इति यावत् अयमाशयो यद्यपि जगद्गुरोयथार्थवादित्वगुणपरीक्षणं मादृशां मतेरगोचरस्तथापि भक्तिद्वातिशयात् तम्यामहमात्मानं विदग्धमिवमन्य इति विशद्धश्रद्धाभक्तिव्यक्तिमात्ररूपत्वात्स्तुतेरितितार्थः ॥ २॥
अथ ये कुतीर्थ्या: कुशास्त्रवासनावासितवान्ततया त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नास्तानपि तत्त्वविचारणां प्रतिशिक्ष यन्नाह । गुणेष्वसूयां दधतः परेऽमी माशिश्रियन्नाम भवन्त मोशं । तथापि सम्मोल्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥३॥
अमी इति श्रदसस्तुविप्रकष्ट इति वचनात्तत्त्वातत्वविमर्शबाह्यतया दूरीकरणाहत्वादिप्रकृष्टाः परे कुतीथिका भवन्तं त्वां अनन्यसामान्यसकलगुणनिलयमपि मा ईशं शिश्रियन् मा स्वामित्त्व नप्रतिपद्यन्तां यतो गुणवसूयां दधती गणेषु बइमत्सरा: गणेषु दोषाविष्करण ह्यसूया यो हि यत्र