________________
स्थाद्दादमञ्जरौ ।
स्ववादिवख्यापनेनेव प्रामाण्यमश्रुतेऽ तस्तुतिकारखिजगद्गुरोर्निःशेषगुणस्तुति श्रद्दालुरपि सद्भूतवस्तुवादिल्वाख्यं गुणविशेषमेव वर्णयितुमात्मनो ऽभिप्रायमाविष्कुर्वन्नाह ।
ม
अयं जनो नाथ तवस्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥ २ ॥
हेनाथ अयं मल्लक्षणो जनस्तव गुणान्तरेभ्यो यथार्थवादव्यतिरिक्तेभ्योऽ नन्यसाधारणशारौरलचणादिभ्यः स्पृहयालुरेव श्रदालुरेव किमर्थं स्तवाय स्तुतिकरणाय इयं तादयेंचतुर्थी पूर्वत्र स्टहेर्व्यायं वेति लक्षणा तव गुणान्तराख्यपि स्तोतुं स्पृहाबानेवायं जन इति भावः ननु यदि गुणोत्तरस्तुतावपि स्पृहयालुता तत्किमर्थं तत्रोपेनेत्याशङ्कयोत्तराईमाह किं त्वित्यभ्युपगमविशेषद्योतने निपातः एकमेकमेव यथार्थवादं यथावस्थितवस्तुतत्व प्रख्यापनाख्यं त्वदीयं गुणमयं जनो विगाहतां स्तुतिक्रिययो समन्ताद् व्याप्रोतु तस्मिन्नेकस्मिन्नपि हि गुणे वर्णिते तन्त्रान्तरीयदैवतेभ्यो वैशिष्ट्यख्यापनद्वारेण वस्तुतः सर्वगुणस्तवनसिद्धिः श्रथ प्रस्तुत गुणस्तुतिः सम्यक्परीक्षाचमाणा -