________________
स्याद्वादमञ्ज
मत्मरोभवति स तदाश्रयं नानुरुध्यते यथा माधुर्यमत्सरी करभः इक्षुकाण्डं गुणाश्रयश्च भवान् एवं परतोर्थिकानां भगवदाज्ञाप्रतिपत्तिं प्रतिषिध्य स्तुतिकारो माध्यस्थ्यमिवास्थाय तान् प्रति हितशिचामुत्तरानोपदिशति तथापि त्वदाज्ञाप्रतिपत्तेरभावेपि लोचनानि नेत्राणि सम्मील्य मिलितपुटीकृत्य सत्यं दुक्तियुक्तं नयवर्त्म न्यायमागं विचारयन्तां विमर्शविष
कुर्वन्तु न च विचारयन्तामित्यात्मनेपदेन फलवत्कर्ट विषयेणैवं ज्ञापयत्याचार्यो यदवितथनयपथविचारण्या तेषामेव फलं वयं केवलमुपदेष्टारः किं तत्फलमिति चेत्प्रेक्षावत्तेति ब्रूमः सम्झौल्य विलोचनानि इति वदतः प्रायस्तत्वविचारणमेकाग्रता हैतुनयनमोलनपूर्वकं लोके प्रसिद्ध मित्यभिप्रायः अथ वा अयमुपदेशस्तेभ्यो रोचमान एवाचार्येण वितीयेते ततोऽस्वदमानोऽप्पयं कटुकौषधपानन्यायेनायतिसुखत्वाद्भवति निमोल्य पेय एवेत्याकृतं ननु च यदि पारमेश्वरे वचसि तेषामविवेकातिरेकादरोचकिता तत्किमर्थं तान्प्रति उपदेश इति नैत्रं परोपकारसारप्रवृत्तीनां महात्मनां प्रतिपाद्यगतां रुचिमरुचिं वा ऽनपेच्य हितोपदेशत्तिदर्शनात्तेषां हि परार्थस्पैव स्वार्थत्वेना भिमतत्वात् न च हितोपदेशादपरः पारमार्थिकपरार्थस्तथा चार्षम् ॥ थ. उ रुसत्तु वा परो मा वा विसं वा परितासि । प्रायव्वाहिया भासा स पत्रगुणकारिया ॥ १ ॥
1
१०
-