________________
स्याहादमञ्जरी।
८५ थमुत्सृष्टम् अन्य स्मै कार्याय प्रयुक्तम् उत्सर्गवाक्यमन्यार्थपयुक्तेन वाक्येन नापोद्यते नापवादगोचरीक्रियते यमेवार्थमाश्रित्य शास्त्रे उत्सर्गः प्रवर्तते तमेवाश्रित्या पवादो ऽपि प्रवर्तते तयोनिम्नोन्नतादिव्यवहारवत्परस्परसापेक्षत्वेनैकार्थसाधनविषयत्वात् यथा जैनानांसंयमपरिपालनाथं नवकोटिविशुद्धाहारग्रहणामुत्सर्ग: तथाविधद्रव्यक्षेत्रकालभावापत्सु च निपतितस्य गत्यन्तराभावे पञ्चकादियतनयाऽनेषणीयादिग्रहणमपवादः सोऽपि च संयमपरिपालनाथमेव न च मरणैकशरणस्य गत्यन्तराभावोऽ सिद्ध इति वाच्यम् ।
सञ्चछसञ्जमंसं जमानुअप्याणमेवरक्खिज्जा । मुच्चद अहवायाउपुगोविसोहौनयाविरई ॥
इत्यागमात् तथा आयुर्वेदेऽपि यमेवेक रोगमधिकृत्य कस्यां चिदवस्थायां किंचिद्वरत्वपथ्यं तदेवारस्थान्तरे तत्र व रोगे पथ्यम् ।
उत्पद्यते हि सावस्था देशकालामयान् प्रति । यस्यामकार्य कार्य स्याल्कर्म कार्य तु वर्जयेत् ॥
इति वचनात् यथा बलवदादेचरिणो लयन चीणधातोस्तु तहिपर्य एवं देशाद्यपेक्षया वरिगोऽपि दधिपानादि योज्यं तथा च वैद्याः ।।
कालाविरोधि निर्दिष्ट ज्वरादी लकनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरान् ॥