________________
८४
स्याहादमञ्जरौ। ताल्वादिजन्मा नन वर्णवर्गों वर्णात्मको वेद इति स्फुटं च । पुंसश्च ताल्वादि तत: कथं स्यादपौरुषयोऽयमिति प्रतीतिः ॥ इति
श्रुतेरपौरुषेयत्वमुररीकृत्यापि तावद्भवद्भिरपि तदर्थव्याख्यानं पौरुषेयमेवाङ्गगक्रियते अन्यथाऽग्निहोवंजुहुयात्वर्गकाम इत्यत्र श्वमासम्भक्षयेदिति कि नार्थो नियामकाभावात् ततो वरं सूत्रमपि पौरुषयमभ्युपगन्तव्यम् अस्तु वाऽपौरुषेयस्तथापि तस्य न प्रामाण्यम् आप्तपुरुषाधीना हि वाचां प्रमाणतेति एवं च तस्यापामाण्ये तदुतस्तदनुपातिस्मृतिपतिपादितश्च हिंसात्मको यागश्राद्धादिविधि: प्रामाण्यंविधुर एवेति अथ योऽयं न हिंस्यात्सर्वभूतानोत्यादिना हिंसानिषेधः स औत्सर्गिको मार्गः सामान्यतो विधिरित्यर्थः ततश्चापवादेनोत्सर्गस्य बाधितत्वान्न श्रौतो हिंसाविधिर्दोषायोत्सर्गापवादयोरपवादो विधि बलोयानिति न्यायाङ्गवतामपि हि न खल्वेकान्तेन -हिंसानिषेधः तत्तत्कारणजाते पृथिव्यादिपतिसेवनानामनुज्ञानाद् ग्लानाद्यर्थमसंस्तरे आधाकर्मादिग्रहगाभणनाच्च अपवादपदं च यात्तिकौहिंसा देवतादि पौतेः पुष्टालम्बनत्वादिति परमाशङ्का स्तुतिकार श्राह नोत्सृष्टमित्यादि अन्यार्थमिति मध्यवर्ति पदं डमरुकमणिन्यायनोभयत्रापि सम्बन्धनीयम् अन्या