________________
स्याहादमञ्जरौ। इति विचाल एव विलोचनं त्रिशङ्काजातेन किंतु पापानुबन्धिपुण्य त्त्वात् तत्त्वत: पापमेव अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत्क इवैतत्प्रत्येतु विप्राणामेव मेदुरोदरतादर्शनात् तहपुषि च तेषां संक्रमः श्रद्धातुमपि न शक्यते भोजनावसरे तत्संक्रमलिङ्गस्य कस्याप्यनवलोकनात् विप्राणामेव च टप्तेः साक्षात्करणात् यदि परं त एव स्थलकवलैराकुलतरमतिगार्यानचंयन्तः प्रेतप्राया इति मुधैव श्राद्धादिविधानं यदपि गयाश्राद्धादियाचनमुपलभ्यते तदपि तादृशविप्रलम्भकविभङ्गज्ञानवत्तरादिकतमेव निश्चयं यदप्युदितम् आगमश्चात्र प्रमाणमिति तदयप्रमाणं स हि पौरुषेयो वा स्यादपौरुषेयो वा पौरुषेयश्चेत् सर्वत्तकृतस्तदितरकृती वा आद्यपक्षे युष्मन्मतव्याहतिस्तथा च भवत्सिद्धान्तः ।
अतीन्द्रियाणामर्थानां साक्षादृष्टा न विद्यते। नित्येभ्यो वेदवाक्य भ्यो यथार्थत्वविनिश्चयः ॥
हितीयपक्षे तु तत्र दोषवत्कर्तृकत्वेनानाखासप्रसङ्गः अपौरुषेयश्चेन्न सम्भवत्येव वरूपनिराकरणात् तुरङ्गशृङ्गवत् तथा क्तिर्वचनमुच्यत इति चेति पुरुषक्रियानुगतं रूपमस्य एतक्रियाभावे कथं भवितुमहति नच तत्केवलं क्वचिद्ध्वनदपलख्यते उपलब्धावप्यदृश्यवत्राशङ्कासम्भवात् तस्मादामचनं तत्पौरुषेयमेव वर्णात्मकत्त्वाकुमारसम्भवादिवचनवत् वचनास्मकश्च वेदस्तथाचाहुः ।