________________
७८
स्थाबादमञ्जरी। मचिन्त्यप्रभावत्वात् तत्संस्कृतपशुवधै सम्भ- त्येव स्व. गंप्राप्तिरिति चेन्न सह लोके श्विाहमर्भाधानजातकर्मादिषु तन्मन्त्राणां व्यभिचारोपलम्भाददृष्टे स्वगोदावपि ताभिचारो ऽनुमीयते दृश्यन्ते हि वेदोतमन्वसंस्कारविशिष्टेभ्यो ऽपि विवाहादिभ्यो ऽनन्तरं वैधव्याल्पायुष्कतादारिद्रााद्यपद्रवविधुराः परःशता: परे च मन्त्रसंस्कारविनाकतेभ्यो ऽनन्तरं तद्विपरीताः अथ तत्र क्रियावैगुण्यं विसंवादहेतुरिति चेन्न संशयानित्तेः किं तत्र क्रियावैगुण्यात्फले विसंवादः किं वा मन्त्राणामसामर्थ्यादिति न निश्चयः तेषां फलेनाविनाभावासिद्धः अथ यथा युष्मन्मते " आरोग्गं वो हि लाभं समाहिवरमुत्तमंदतुम्" इत्यादीनां वाक्यानां लीकान्तर एव फलमिष्यते एवमम्मदभिमतवेदवाक्यानामपि नेह जन्मनि फल मिति किं न प्रतिपद्यते ततश्च विवाहादौ नोपलम्भावकाश इति चेदहोवचनवैचित्रौ यथा वर्तमानजन्मनि विवाहादिषु प्रयुक्तर्मन्त्रसंस्कारैरागामिनि जन्मनि तत्फलमेव द्वितीयादिजन्मान्तरेष्वपि विवाहादीनामेव प्रतिधर्माणां पुण्य हेतुत्त्वाङ्गीकार ऽनन्तमवानुसन्धान प्रसज्यते एवं च न कदा चन संसारस्य परिसमाप्तिस्तथा च न कस्य चिदपवर्गप्राप्तिरि. ति प्राप्तं भवदभिमतवेदस्यापर्यवसितसंसारवल्लरीमूलकन्दत्वम् आरोग्यादिप्रार्थना तु असत्याम्टषा*. * भाषा नामनौ।